________________
कुमारसम्भवे - V. 34.
अपि त्वदावर्जित वारिसंभृतं प्रचालमासामनुबन्धि वीरुधाम् । चिरोज्झितालक्तकपाटलेन ते तुलां यदारोहति दन्तवाससा ॥ 581 ॥
दन्तवाससा । तृतीया । तुलां सादृश्यम् । तुलाशब्दस्य सादृश्यवाचित्वात् तद्योगे अतुलोपमाभ्यामिति न तृतीयाप्रतिषेधः । अत्र सूत्रे सदृशवाचिन एव ग्रहणात् ।
चम्पूभारते – IV. 29.
कारकप्रकरणम्
अस्मिन्नेव ग्रन्थे श्लो॰ 283. शम्भुना, तृतीया । स्फुटोपमं, स्फुटमुपमा यस्य तम् | सादृश्यवाचित्वात् तृतीया ।
राज्ञा तुलां सादृश्यम् ।
दिग्धे सन्तमसैः सान्द्रैर्दिशापदिशचत्वरे ।
सर्वाः प्रजास्तदा राज्ञा समारुक्षन् दृशा तुलाम् || 582 ।।
६३१ | चतुर्थी
चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः । (२. ३.७३ )
एतदर्थैर्योगे चतुर्थी वा स्यात्, पक्षे षष्ठी आशिषि । आयुष्यं चिरं जीवितं कृष्णाय कृष्णस्य वा भूयात् । एवं मद्रं भद्रं कुशलं निरामयं सुखं शम् अर्थः प्रयोजनं हितं पथ्यं वा भूयात् । आशिषि किम् । देवदत्तस्यायुष्यमस्ति ।
19
भट्टिकाव्ये - VIII. 181.
राघवाभ्यां शिवं दूतस्तयोर हमिति ब्रुवन् ।
हितो भनज्मि रामस्य कः किं ब्रूतेऽत्र राक्षसः || 588 ॥
राघवाभ्यां शिवमस्तु | रामस्य हितः । षष्ठीचतुर्थ्यो ।
माघे— XVI. 41.
१४५
कुशलं खलु तुभ्यमेव त
द्वचनं कृष्ण यदभ्यधामहम् ।