________________
पाणिनिसूत्रव्याख्या चम्पूभारते-XII. 33.
दिगन्तरलुठत्कीतिरनन्तकविकुञ्जरः ।
प्राणैस्तुल्यं सरस्वत्याः प्राणैषीच्चम्पुभारतम् ॥ 577 ।। सरस्वत्याः प्राणैः । तृतीया । तुल्यं सदृशम् । अस्मिन्नेव ग्रन्थे श्लो० 555. सा दमयन्ती तव, षष्ठी, सदृशी। नैषधे-IV. 21.
हृदयदत्तसरोरुहया तया
क सगस्तु वियोगनिमग्नया । प्रियधनुः परिरभ्य हृदा रतिः
किमनुमतुमशेत चितार्चिषि ।। 578 ।। तया दमयन्त्या । तृतीया । सहक सदृशी वास्तु । अस्मिन्नेव ग्रन्थे श्लो0 574. नन्दनस्य सदृशं, तेन तुल्यम् । अस्मिन्नेव ग्रन्थे श्लो० 111. तस्याः सीतायाः समा न । रघुवंशे-XI. 58.
तौ समेत्य समये स्थितावुभौ
भूपती वरुणवासवोपमौ। कन्यकातनयकौतुकक्रियां
स्वप्रभावसदृशीं वितेनतुः ॥ 579 ॥ वरुणवासवावुपमा ययोस्तौ । षष्ठी । अतुलोपमाभ्यामिति तृतीयानिषेधः स्वप्रभावस्य स्वप्रभावेन वा सदृशीमिति समासः । रघुवंशे--II. 9.
विसृष्टपार्थानुचरस्य तस्य ___पाश्चद्रुमाः पाशभृता समस्य । उदीस्यामासुरिवोन्मदाना
मालोकशब्द वयसां विरावैः ॥ 580 ॥ पाशभृता, तृतीया । समस्य।