SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ कारकप्रकरणम् भट्टिकाव्ये--VI. 51. ऋश्यमूकेऽनवद्योऽस्ति पण्यभ्रातृवधः कपिः । सुग्रीवो नाम बर्योऽसौ भवता चारुविक्रमः ।। 573 ॥ असौ सुग्रीवो भवता वर्यः । मित्रत्वेनाप्रतिबन्धं वरणीय इत्यर्थः । स्त्रियामस्य निपातनात्युंसि प्रयोगः कवेः खातन्त्र्यात् । यद्वा वार्य इति ण्यदन्तपाठः प्रत्युदाहरणार्थः । भट्रिकाव्ये-VIII. 130. राक्षसेन्द्रस्य संरक्ष्यं मया लव्यमिदं वनम् । इति संचिन्त्य सदृश नन्दनस्याभनक कपिः ।। 574 || राक्षसेन्द्रस्य संरक्ष्यम् । विकल्पात्कर्तरि षष्ठी। इदं वनं मया लव्यं छेद्यम् । विकल्पाकरि तृतीया । भट्टिकाव्ये- VI. 57. नाखेयः सागरोऽप्यन्यस्तस्य सद्भत्यशालिनः । मन्युस्तस्य त्वया माग्र्यो मृज्यः शोकश्च तेन ते ॥ 575 ॥ तस्य सुग्रीवस्य । कर्तरि षष्ठी। अन्यः सागरोऽपि नाखेयः। अपि तु खननीय एव । तस्य मन्युः, त्वया कर्तरि तृतीया, मार्यः । भट्टिकाव्ये--IX. 12. मायानामीश्वरास्तेऽथ शस्त्रहस्ता स्थैः कपिम् । प्रत्याववृतिरे हन्तु हन्तव्या मारुतेः पुनः ॥ 576 ॥ शस्त्रहस्ता मारुतेः, कर्तरि षष्ठी । हन्तव्याः । ६३० । तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम् । (२. ३. ७२) तुल्याोंगे तृतीया वा स्यात्पक्षे षष्ठी । तुल्यः सदृशः समो वा कृष्णस्य कृष्णेन वा। अतुलोपमाभ्यां किम् । तुला उपमा वा ( एतौ सहशवाचिनौ) कृष्णस्य नास्ति । न तृतीया । सादृश्ये तु तृतीयैव न षष्ठी । अस्मिन्नेव ग्रन्थे ग° 508. श्रुतस्य यत् सदृशम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy