________________
१४२
नैषधे - VI. 99.
साधोरपि स्वः खलु गामिताधोगमी न तु स्वगमितः प्रयाणे ।
इत्यायती चिन्तयतो हृदि द्वे द्वयोरुदर्कः किमु शर्करे न || 569 ||
स्व गमी । स्वर्गं गमिष्यति । पूर्ववण्णिनिः ।
रघुवंशे - XVII. 8.
तदत्मसम्भवं राज्ये मन्त्रिवृद्धाः समादधुः । स्मरन्तः पश्चिमामाज्ञां भर्तुः संग्रामयायिनः || 570
सङ्ग्रामयायिनः संग्रामं यास्यतः । आवश्यकार्थे णिनिः ।
नैषधे – V. 92.
पाणिनिसूत्रव्याख्या
दानपात्रमधमर्णमिहैक
ग्राहि कोटिगुणितं दिवि दायि । साधुरेति सुकृतैयदि कर्तुं
पारलौकिक कुसीदमसीदत् ॥ 571 |
कोटिगुणितं दायि । आघमर्थे णिनिः ।
६२९ । कृत्यानां कर्तरि वा । (२.३. ७१ )
षष्ठी वा स्यात् । मया मम वा सेव्यो हरिः । कर्तरीति किम् । गेयो माणचकः सान्नाम् । ' भव्यगेय' (सू. 2894 ) इति कर्तरि यद्विधानात् अनमिहितं कर्म ।
भट्टिकाव्ये - VI. 48.
लभ्या कथं
नु
वैदेही शक्यो द्रष्टुं कथं हरिः । कथं वियोगश्च गद्यमेतत्त्वया मम ॥ 672 ॥
f
एतत्सर्वं त्वया मम गद्यं वाच्यम् । त्वयेति कर्तरि तृतीया । ममेति शेषत्वविवक्षायां कर्मणि षष्ठी ।