________________
पाणिनिसूत्रव्याख्या
सम्पूभारते-I. 42.
ग-वत्से भवत्सेवासम्प्रदायेन सम्प्रति भृशं प्रसीदामीति व्याहृत्य स मुनिरनुकम्पितचेता मह्यमत्यर्थमभीप्सितार्थसमर्थापनपरतन्त्रं कमपि मन्त्रमुपादिक्षत् !॥ 4 ॥ वत्सा-- अजादित्वाट्टाप् ।
वा । शूद्रा चामहत्पूर्वा । जातिः । [3400, 2401] पुंयोगे तु शूद्री। चम्पूरामायणे-~-II. 58.
अहं वैश्यस्य शद्रायां जातस्तस्मान्न संभवेत् ।
ब्रह्महत्येति मामुक्ता स्वगतो दुर्गतो मुनिः ॥ 5 ॥ शूद्रा-टाप् । शूद्री शुद्गस्य भार्या स्याच्छूद्रा तजातिरङ्गना । आभीरी तु महाशूद्री जातिपुयोगयोः समे ॥ इत्यमरः । II. vi. 18.
'ऋन्नेभ्यो डीप् ' (सू. 306) कर्जी, दण्डिनी । घिनुण । कुमारसम्भवे-VIII. 76.
आर्द्रकेसरसुगन्धि ते मुखं मत्तरक्तनयनं स्वभावतः ।
पत्र लब्धवसतिगुणान्तरं किं विलासिनि मदः करिष्यति ॥ 6 ।। विलासिनी- डीम् ।
४५५ । उगितश्च । (४. १. ६) इति की । ईयसुन् । माघे--- I. 18.
अशेषतीर्थोपहता; कमण्डलो
निधाय पाणावृषिणाभ्युदीरिताः । अघौघविध्वंसविधौ पटीयसी
नतेन मूर्धा हरिरग्रहीदपः ॥ 7 ॥