________________
॥ पाणिनिसूनव्याख्या ॥
(सोदाहरणश्लोका)
॥ स्त्रीप्रत्ययप्रकरणम् ॥
४५३ । स्त्रियाम् । (४. १.३)
४५४ । अजायतष्टाप् । (४. १. ४) अजादीनामकारान्तस्य च स्त्रियां टाप् स्यात् । अनादिगणपाठःअध्यायः ४. पादः १.
भोजचरिते-लो. 27.
खाम्युक्त यो न यतते स भृत्यो भृत्यपाशकः ।
तज्जीवनमपि व्यर्थमजागलकुचाविव ॥ 1 ॥ अजा-जातेरस्त्री'ति (सू . 518) कीषि प्राप्ते टाप् ।
रघुवंशे-XII. 39.
लक्ष्मणः प्रथमं श्रुत्वा कोकिलामञ्जुवादिनीम् ।
शिवाघोरखनां पश्चाद् बुबुधे विकृतेति ताम् ॥ १ ॥ घोरखना--अदन्तत्वाट्टाप । कोकिला-अजादित्वाट्टाप् । रघुवंशे--XII. 84.
कललवानहं बाले कनीयांसं भजख मे ।
इति रामो वृषस्यन्तीं वृषस्कन्धः शशास ताम् ॥ ४ ॥ बाला- अजादित्वाट्टाप ।