________________
स्त्रीप्रत्ययप्रकरणम्
पटीयसी - ईयसुनि ङीप् ।
चम्पूभारते -- V. 81.
तत्रान्तरे ज्वलितवर्णवपुः कदाचिदङ्गेषु शब्द इव कर्णमवाप्य रात्रौ ।
भासां पतिः कृतनमस्करणाय तस्मै
प्रेम्णाशिषः प्रणिजगाद यवीयसीं गाम् ॥ 8 ॥
यवीयसी - पूर्ववत् ।
क्तवतुप्रत्ययः । माघे - XII, 58.
स व्याप्तवत्या परितोऽपथान्यपि स्वसेनया सर्वपथीनया तथा ।
अभिरुचिततुङ्गरोधसः
प्रतीपनाम्नीः कुरुते स्म निम्नगाः ॥ 9 ॥
व्याप्तवती -- तवतौ ङीप् ।
सुः । रघुवंशे -- II. 6.
स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमा सनबन्धधीरः । जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत् ॥ 10 ॥
निषेदुषी - कसुप्रत्ययान्तात् ङीप् ।
ड्मतुप् । भट्टिकाव्ये – II. 4.
--
निशातुषारैर्नयनाम्बु कल्पैः पत्रान्तपर्यागलदच्छविन्दुः ।
उपारुरोदेव नदत्पतनः कुमुद्वतीं तीरतरुर्दिनादौ ॥ 11 ॥
कुमुद्वती - ङीप् ।
मतुप् । चम्पूभारते - I. 48.
अपि कुधामावसतेरमुष्मान्मत्वा गुरुत्वं वरमन्त्रलाभे । अपुष्पवत्यामपि मे दशायामामोदभारोऽधिकमाविरासीत् ॥ 12 ॥
अपुष्पवती - ङीप् ।