________________
पाणिनिसूत्रत्याख्या
वा । द्विषः शतुर्वा । (1522.) वैकल्पिकः षष्ठीप्रतिषेधः । माघे-II. 1.
इयक्षमाणेनाहूतः पार्थेनाथ द्विषन्मुरम् ।
अभिचैद्य प्रतिष्ठासुरासीत्कार्यद्वयाकुलः ॥ 562 ॥ मुरं द्विपन् ।
६२८ । अकेनोभविष्यदायमर्ययोः । (२. ३. ७०)
भविष्यत्यकस्य भविष्यदाधमार्थेनश्च योगे षष्ठी न स्यात् । सतः पालकोऽवतरति । बज गामी । शतं दायी ।
'तुमुन्ण्वुलौ' ( सू. 3175) इति भविष्यदर्थे ण्वुल् । 'भविष्यति गम्यादयः' (सू. 3171) इति भविष्यदर्थे इनिः । 'आवश्यकाधमी' (मू. 3311 ) इति गिनिः ।
अस्मिन्नेव ग्रन्थे श्लो० 530. प्रभोर्वातामाख्यायकः । आख्यास्यन् । भविष्यदर्थे प्वुल्।
अस्मिन्नेव ग्रन्थे श्लो० 384. मित्रकार्याणि कारकाः। करिष्यन्तः . पूर्व. वत् ल् । माघ-VI. 7.
रतिपतिप्रहितेव कृतक्रुधः
प्रियतमेषु वधूरनुनायिका । बकुलपुष्परसासवपेशल
ध्वनिरगान्निरगान्मधुपावलिः ॥ 563 ॥ कृतक्रुधो वधूरनुनायिकानुनेष्यन्ती । पूर्ववत् प्बुल । चम्पूभारते-V. 84.
एतानि याचकमिह द्विजवेषगूहं
मा लब्धकामममराधिपति कृथास्त्वम् ।