________________
কাঙ্কসঙ্কঃ
अपि वागधिपस्य दुर्वचं
वचनं तद्विदधीत विस्मयम् ॥ 557 ।। वागधिपस्य बृहस्पतेरपि दुर्वचं वक्तुमशक्यम् । शेषे षष्ठी । भट्टिकाव्ये-VII. 17.
नावैत्याप्यायितारं किं कमलानि रविं कपिः ।
दीपितारं दिनारम्भे निरस्तध्वान्तसंचयम् ।। 558 ।। कमलान्याप्यायितारं साधु वर्धयन्तम् । तॄन् । भट्टिकाव्ये--VII. 18.
अतीते वर्षके काले प्रमत्तः स्थायुको गृहे ।
गामुको ध्रवमध्वानं सुग्रीवो वालिना गतम् ।। 559 ॥ वालिना गतम् । निष्ठा । अध्वानं गामुकः साधु गन्ता । उकञ् । नैषधे-V. 102.
शुद्धवंशजनितोऽपि गुणस्य
स्थानतामनुभवन्नपि शकः । क्षिप्नुरेनमृजुमाशु अपक्ष
सायकं धनुरिवाजनि वक्रः ।। 660 ।। शक्रः एनं नलं सायकं जनुरिव क्षिप्नुः । प्रत्ययः ।
वा० । कमेरनिषेधः (1619.) लक्ष्म्याः कामुको हरिः। नैषधे--1. 108.
पयोनिलीनाभ्रमुकामुकावली
रदाननन्तोरगपुच्छसुच्छवीन् । जलाधरुद्धस्य तटान्तभूभिदो
मृणालजालस्य मिषाद्वभार यः ॥ 561 ॥ अभ्रम्बाः कामुक इति षष्ठीसमासः ।