________________
१३८
पाणिनिसूत्रव्याख्या
मातुलस्य नगरे युधाजितः
स्थापितौ भरतलक्ष्मणानुजौ ॥ 558 निर्वतिं गच्छता । शतृ । भूभुजामसुलभाम् । खल । शेषे षष्ठी । भट्टिकाव्ये~-VII. 38.
सदोद्गारसुगन्धीनां फलानामलमाशिताः ।
उत्कारेषु च धान्यानामनभीष्टपरिग्रहाः ।। 554 ।। फलानामाशिताः । आशितशब्दस्य सुहितार्थत्वात् 'पूरण ' ( सू. 705 ) इत्यादिना षष्ठीसमासप्रतिषेधः । एतस्मादेव ज्ञापकाकरणे षष्ठी इति मल्लिनाथः । फलानामाशितः फलान्याशितः । माषाणामश्नीयादितिवत् शेषे षष्ठी । कृद्योगषष्ठया: प्रतिषेधः।
अस्मिन्नेव ग्रन्थे श्लो० 292. अग्रजस्यानुकुर्वन्तः । शेषे षष्ठी । नैषधे-II. 29.
सहशी तव शूर सा पर
जलदुर्गस्थमृणालजिद्भुजा। अपि मित्रजुषां सरोरुहां
गृहयालुः करलीलया श्रियः ।। 555 || सरोरुहां श्रियः करलीलया गृहयालुः । आलुच् । चम्पूभारते-V. 29. प्रार्थमानपददर्शनं चिरा
त्पश्यतः पथि भवन्तमग्रजम् । विस्मयाम्बुनिधिरेष मेऽधुना
वीरवयं भवतापि दुस्तरः ॥ 556 ॥ खल् । भवतापि दुस्तरः । भवतापीति कर्तरि तृतीया । किरातार्जुनीये--II. 2.
यदवोचत वीक्ष्य मानिनी
परितः स्नेहमयेन चक्षुषा ।