________________
কাহালু
१३७
जलदैरभितः स्फुरद्भिरुच्चै
विदधे केतनतेव धूमकेतोः ॥ 549 ॥ सवितुर्मरीचीन् परिभावुकैः तिरस्कारकैः । उकञ् ।
अस्मिन्नेव ग्रन्थे श्लो० 140. कौवेरदिग्भापमपास्य । अव्ययप्रयोगात्प्रतिषेधः । आगस्त्य मार्गमवतीर्णः । निष्ठाप्रयोगात्प्रतिषेधः । माधे--XIV. 76.
गच्छतापि गगनाप्रमुच्चकै___ यस्य भूधरगरीयसाधिणा। क्रान्तकन्धर इवाबलो बलिः
स्वर्गभर्तुरगमत्सुवन्धताम् ॥ 550 !! गगनाग्रं गच्छता। शतृ । बलि: वैरोचनिः स्वर्गभर्तुरिन्द्रस्य । सुखेन बध्यत इति सुबन्धः तस्य भावम्तत्ता तां अगमत् । खल्प्रत्ययः । कृद्योगलक्षणाया एव षष्ठया निषेधात्स्वर्गभर्तुरिति शेषे षष्ठी। रघुवंशे-I. 72.
तस्मान्मुच्ये यथा तात संविधातुं तथार्हसि ।
इक्ष्वाकूणां दुरापेऽर्थे त्वदधीला हि सिद्धयः ॥ 551 ॥ इक्ष्वाकूणां दुरापे । खल् । शेषे षष्ठी । रघुवंशे-XVI. 81.
त्रैलोक्यनाथप्रभवं प्रभावा
स्कुश द्विषामङ्कुशमस्त्रविद्वान् । मानोन्नतेनाप्यभिवन्द्य मून
मूर्धाभिषिक्तं कुमुदो बभाषे ॥ 552 ॥ . अस्त्रं विद्वान् अस्त्रविद्वान् । षष्ठीनिषेधाद्वितीया । 'द्वितीयाश्रित' (सू. 686) इत्यत्र गम्यादीनामुपसंख्यानात् , द्वितीयेति योगविभागाद्वा समासः । चम्पूरामायणे-II. 1. गच्छता दशरथेन निर्वृति
भूभुजामसुलभां भुजाबलात् ।
18