________________
१३७
चम्पूभारते - 1. 20. वेशन्तपङ्कविहृतेर्विनिवृत्य सद्यः प्रत्युद्यतां ध्वनिषु मत्सरिणां हयस्य ।
भूदार एव वनपोत्रवतामतानी
पाणिनिसूतंव्याल्या
दारशब्दमसहिष्णुरिवान्तमेषाम् || 536 ||
इष्णुच् ।
अस्मिन्नेव ग्रन्थे श्लो० 134. रम्भां तरुं परं जिष्णुः किमु । मनुः ।
चम्पूभारते - V. 79.
दीनधीः स तपसा हिमशैले
ervi पुरहरादूगृहयालोः ।
आददे वरमथो विजयौ द्वा
वन्तरेण युधि पाण्डवरोधम् ॥ 587 ||
पथं गृहयालोः । आलुच ।
अस्मिन्नेव ग्रन्थे श्लो० 77. दन्दशूकान् राक्षसान् । जिघांसी । उपत्ययः ।
भट्टिकाव्ये - VII. 24.
काभिरावृतस्त्रीभिराशंसुः क्षेममात्मनः ।
इच्छुः प्रसादं प्रणमन् सुग्रीवः प्रावदन्नृपम् || 588 ।।
क्षेममाशंसुः प्रसादमिच्छुः । उप्रत्ययः ।
भट्टिकाव्ये - II. 37.
जग्मुः प्रसादं मुनिमानसानि
द्यौर्वका पुष्पचयं बभूव ।
निर्व्याजमिज्या ववृते वचश्च
भूयो बभाषे मुनिना कुमारः || 539 ||
पुष्पचयं वर्पुका । उकञ् ।