________________
कारकप्रकरणम्
भट्टिकाव्ये-- VI. 116.
प्रियंभावुकतां यातस्तं क्षिपन्योजन मृतम् ।
खर्गे प्रियंभविष्णुश्च कृत्स्नं शक्तोऽप्यबाधयन् ।। 540 ॥ मृतं तं क्षिपन् लादेशः । प्रियम्भावुकतां यातः । निष्ठा । भट्टिकाव्ये-VI. 115.
आढ्यङ्करणविक्रान्तो महिषस्य सुरद्विषः ।
प्रियङ्करणमिन्द्रस्य दुष्करं कृतवान् वधम् : 541 ॥ वधं कृतवान् । निष्ठा । भट्टिकाव्ये-VII. 1.
ततः कर्ता बनाकम्प ववौ वर्षाप्रभञ्जनः ।
नभः पूरयितारश्च समुन्नेमुः पयोधराः ।। 542 ॥ वनाकम्पं कर्ता । तत्साधुकारी । तृन् । पयोधरा नभःपुरयितारः । पूर्ववत्तॄन् । भट्टिकाव्ये- V. 10.
वृतम्त्वं पात्रेसमितैः खटारूढः प्रमादवान् ।
पानशौण्डः श्रियं नेता नात्यन्तीनत्वमुन्मनाः ॥ 543 ॥ श्रियमत्यन्तीनत्वं न नेता । तृन् । भट्टिकाव्ये-XVIII. 40.
दातुः स्थातुर्द्विषां मूर्ध्नि यष्टस्तर्पयितुः पितृन् ।
सुद्धाभमविपन्नस्य किं दशास्यस्य शचसि ॥ 544 ॥ पितृन् तर्पयिता । तृप तृप्तौ चुरादिः । तृन् । भट्टिकाव्ये—-X. 15.
घनगिरोन्द्रविलङ्घनशालिना
वनगता वनजातिलोचना । जनमता ददृशे जनकात्मजा तरुमृगेण तरुस्थलशायिनी ॥ 545 ॥