SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ছামঞ্জসহ্য 61 यातुधानान् निघातयिष्यन् । हन्तेयन्ताल्लूटः शतृप्रत्ययः । रक्षोगणं क्षिप्नुम् । वनुप्रत्ययः । लप्रयोगात् क्नोरुकारान्तत्वात्प्रतिषेधः । अस्मिन्नव ग्रन्थे श्लो० 316. बाणान्दीव्यमानम् । 'दिवः कर्म च' (सू. 562 ) इति करणस्य कर्मत्वम् । गदा अस्यमानम् । शानवान् निनानम् । चानश् । लप्रयोगे प्रतिषेधः । भट्टिकाव्ये~VI. 139. अहं तु शुश्रुवान्भ्रात्रा स्त्रियं भुक्तां कनीयसा । उपेयिवाननूचानैर्निन्दितस्त्वं लतामृग ।। 533 || स्त्रियमुपेयिवान् । लिटः कसुः । लपयोगे प्रतिषेधः । अस्मिन्नेव ग्रन्थे श्लो० 50. मामिच्छुः । उप्रत्ययः । भट्टिकाव्ये-I. 20. • स शुश्रुवांस्तद्वचनं मुमोह राजासहिष्णुः सुतविप्रयोगम् । अहंयुनाथ क्षितिपः शुभंयु रूचे वचस्तापसकुञ्जरेण ।। 534 ॥ वचनं शुश्रुवान् । लिटः क्वपुः । लप्रयोगात्पतिषेधः । सुतविप्रयोगमसहिष्णुः । उकारान्तत्वात्पतिषेधः । अस्मिन्नेव ग्रन्थे श्लो० 352. भ्रामरं धयतीति धारुम् । धेटो रुः । भट्टिकाव्ये-~I. 19. आख्यन्मुनिस्तस्य शिव समाधे विघ्नन्ति रक्षांसि वने क्रतूस्तु। तानि द्विषद्वीयनिराकरिष्णु स्तृणेढु रामः सह लक्ष्मणेन ॥ 535 ।। द्विषतां वीर्य निराकरिष्णुः । इष्णुच । द्वितीया इति योगविभागात्समासः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy