________________
कारकप्रकरणम्
भट्टिकाव्ये -- VIII. 124.
तवोपशायिका यावद्राक्षस्यश्चेतयन्ति न । प्रतिसन्दिश्यतां तावद्भर्तुः शार्ङ्गस्य मैथिलि || 505 ||
तव शार्ङ्गस्येति यथाक्रमं षष्ठी ।
१२५
भट्टिकाव्ये -- VII. 69.
ततो जलधिगम्भीरान्वानरान्प्रत्युवाच सा । इयं दानवराजस्य पूः सृष्टिर्विश्वकर्मणः ॥ 506 | विश्वकर्मणः । कर्तरि षष्ठी । सृज्यत इति सृष्टिः । कर्मणि स्त्रियां क्तिन् ।
भट्टिकाव्ये - VI. 78.
सख्यस्य तव सुग्रीव कारकः कपिनन्दनः ।
द्रुतं द्रष्टासि मैथिल्याः सेवमुक्ता तिरोऽभवत् || 507 ||
तव सख्यस्य । कर्मणि षष्ठी | कारकः । कपीनाम् । कर्मणि षष्ठी । नन्दनः कपिनन्दन इति समासः । मैथिल्याः । कर्मणि षष्ठी । द्रष्टा ।
1
1
अस्मिन्नेव ग्रन्थे श्लो० 260. तस्य कार्तवीर्यस्य । कर्मणि षष्ठी । हन्तारम् । अस्मिन्नेव ग्रन्थे श्लो० 32. दिशामीशिता । ' अधीगर्थ ' ( सू. 618) इत्यादिना कर्मणि शेषे वा षष्ठी ।
चम्पूरामायणे – II. 80.
ग — विकर्तनकुलस्य यदनुकूलं गुणगणस्य यदनुगुणं यशोरूपस्य यदनुरूपं समाचारस्य यत्समुचित प्राचीनमाम्यस्य यद्योग्यं लोकगर्हणाय यदन श्रुतस्य वा यत्सदृशं तादृशमाशयं प्रकाशयन्ती भरतोपनं विज्ञापना || 508 ||
उपज्ञायत इत्युपज्ञा । ' आश्चोपसर्गे' ( सू. 8288 ) इति कर्मण्यड् । भरतस्य । कुल्लक्षणा कर्तरि षष्ठी । भरतोपज्ञम् । ' उपज्ञोपक्रम ' ( सू. 824 ) इति नपुंसकत्वम् ।
अस्मिन्नेव ग्रन्थे इलो० 871. भूतानामनभिद्रुहः | 'क्रुष ' ( सू. 576 ) इति कर्मसंज्ञायां भूतानामिति कर्मणि षष्ठी ।