________________
१२४
पाणिनिसूत्रव्याख्या
अस्मिन्नेव ग्रन्थे श्लो० 470. रघूतमः एकत्साह्नः। कालवाचिन्यधिकरणार्थे षष्ठी। शतकृत्वः शतवारं तव स्मरति ।
नैषधे -VI. 41.
पुरः स्थितस्य कचिदस्य भूषा
रत्नेषु नार्यः प्रतिबिम्बितानि । व्योमन्यदृश्येषु निजान्यपश्यन्
विस्मित्य विस्मित्य सहस्त्रकृत्वः ।। 508 ।।
नार्योऽदृश्येषु नलस्य भूषारलेषु निजप्रतिबिम्बितानि व्योमनि, अकालवाचित्वासप्तमी, सहस्रकृत्वोऽपश्यन् ।
चम्पूभारते- II. 42.
मा भून्नाशो युगपदिति नो भीरुभिर्जातु पौरैः
पूर्लब्ध्वावसरमसकृत्प्रार्थनाभिः प्रक्कृप्तम् । एकैकस्मिन्नहनि वितरत्येकमेकं पुमांस
नित्यं तस्मै बलिमिह जनस्तुङ्गमन्नस्य राशिम् ।। 504 ।।
कृत्वोऽर्थप्रयोगाभावादहनीति सप्तमी । 'संख्याया' (सू. 2085) इति कृत्वसुच् । 'द्वित्रि' (सू. 2086) इति सुच् ।
'कालाध्वनोः' (सू. 558) इति द्वितीया । अस्मिन्नेव ग्रन्थे लो० 218. क्षणमूचे । उक्तिक्रियया क्षणस्य कालस्य साकल्येन सम्बन्धात् क्षगमिति द्वितीया ।
- ६२३ । कर्तृकर्मणोः कृति । (२, ३. ६५)
कृद्योगे कर्तरि कर्मणि च षष्ठी स्यात् । कृष्णस्य कर्तुः कृतिः । जगतः कर्मणः कर्ता कृष्णः । 'कृयोगा च' (वा. 1317. सू . 703 ) इति समासः ।
अस्मिन्नेव ग्रन्थे श्लो० 460. पुंसाम् । कर्तरि षष्ठी । अगमम् ।