________________
कारकप्रकरणम्
१२३
माधे-XIX, 103.
उद्धतान् द्विषतस्तस्य निम्नतो द्वितय पपुः ।
पानार्थे रुधिरं घातौ रक्षार्थे भुवनं शराः ॥ 501 1 उद्धतान्द्विषतः निघ्नतः।
चम्पूरामायणे--VI. 37. · गदेव कपिबलमखिलकुलाचलनिलयमनिलतनयेनाहूत पुरुहूत इव पुलोमजाप्. हारिणमनुादं रावणं रणे निहनिष्यसीति ।। 502 !!
६१८ । व्यवहपणोः समर्थयोः । ( २. ३. ५७) शेषे कर्मणि षष्ठी स्यात् ।
अस्मिन्नेव ग्रन्थे श्लो० 493. रावणः प्राणानामपणिष्ट । प्राणान्विक्रीतवानित्यर्थः । पणेर्व्यवहारार्थालुङि तङ् । अस्तुत्यर्थत्वाद् ‘गुपूधूप' (सू. 2303.) इत्यादिना नायप्रत्ययः ।
६१९ । दिवस्तदर्थस्य । (२. ३. ५८) यतार्थस्य क्रयविक्रयरूपव्यवहारार्थस्य च दिवः कर्मणि षष्ठी स्यात् । शतस्य दीव्यति।
____ अस्मिन्नेव ग्रन्थे श्लो° 470. रावणे बन्धुभोगानामदेवीत् । तानपि विक्रीतवानित्यर्थः ।
६२० । विभाषोपसर्गे । (२. ३. ५९) पूर्वयोगापवादः । शतस्य शतं वा प्रतिदीव्यति ।
अस्मिन्नेव ग्रन्थे श्लो० 470. आत्मसम्पदं स्वलक्ष्मी प्रादेवीत् विक्रीतवान् । वैकल्पिकी द्वितीया।
६२२ । कृत्वोऽर्थप्रयोगे कालेऽधिकरणे । (२. ३. ६४)
कृत्वोऽर्थानां प्रयोगे कालवाचिन्वधिकरणे शेषे षष्ठी स्यात् । पञ्चकृत्वोऽहो भोजनम् । अर्थग्रहणात्सुचप्रयोगेऽपि द्विरहो भोजनम् ।