________________
१२०
पाणिनिसूत्रव्याख्या कस्यचिन्मा उपस्कृथाः । अशनपानादिकमतिशयवन्ने मा कार्षीरित्यर्थः ।
अस्मिन्नेव ग्रन्थे श्लो० 477. रामलक्ष्मणाविहागमस्यागमनम्योपास्कृषात प्रतियनं कृतवन्तौ । आगमनस्या निश्चितत्वात्तस्यैव सुग्रीवसख्येन गुणाधानम् । आगमस्येति षष्ठी।
६१५ । रुजार्थानां भाववचनानामज्वरेः (२. ३. ५४) भावकर्तृकाणां ज्वरिवर्जितानां रुजार्थानां कर्मणि शेषे षष्ठी स्यात् ।। भट्टिकाव्ये----VIII. 121.
रावणस्येह रोक्ष्यन्ति कपीनां भीरु विक्रमाः ।
नाथख धृत्या वैदेहि मन्योरुज्जासयात्मनः ॥ 490 ।। कपीनां विक्रमाः । क्रमे वे घन । कर्तारः । रावणस्य । कर्मणि षष्ठी। रोक्ष्यन्ति भङ्क्षयन्ति । रुजो भङ्ग इत्यस्मात् लट् ।
६१६ । आशिषि नाथः (२. ३. ५५) आशीरथस्य नाथतेः शेषे कर्मणि षष्ठी स्यात् ।
अस्मिन्नेव ग्रन्थे श्लो० 490. धृत्यः । कर्मणि षष्ठी : नाथस्व । धैर्यमवलबस्वेत्यर्थः । 'आशिषि नाथः' (वा. 910. सू. 2687 ) इत्यात्मनेपदम् ।
६१७ । जासिनिग्रहणनाटकाथपिषां हिंसायाम् । ( २. ३. ५६)
हिंसार्थानामेषां शेषे कर्मणि षष्ठी स्यात् । चौरस्योज्जासनम् । निप्रौ संहतो विपर्यस्तो व्यस्तौ वा । चौरस्य निग्रहणनं प्रणिहननं निइननं प्रहणनं वा । 'नट अवस्कन्दने' चुरादिः । चौरस्योन्नाटनम् । चौरस्य काथनम् । वृषलस्य पेषणम् ।
अस्मिन्नेव ग्रन्थे श्लो० 490. आत्मनो मन्योः शोकस्य । कर्मणि षष्ठी। उज्जासय मन्यु हिन्धीत्यर्थः । 'जसु हिंसायामिति ' चौरादिको पातुः । माघे-I. 37. निजौजसोज्जासयितुं जगद्रहा
मुपाजिहीथा न महीतलं यदि ।