________________
कारकप्रकरणम्
१२१ समाहितैरप्यनिरूपितस्ततः
पदं दृशः स्याः कथमीश मादृशाम् 11 491 ॥ जगद्व्हां कंसादीनां उज्जासयितुं तान्हन्तुम् । अनधराघवे-II. 38.
कल्पान्तकर्कशकृतान्तभयङ्करं मे
निप्रप्ततः क्रतुविघातकृताममीषाम् । नीराक्षसां वसुमतीमपि कर्तुमद्य
पुण्याहमङ्गलमिदं धनुरादधातु ॥ 492 ।। ऋतुविधातकृताममीषां राक्षसानान् । कर्मणि षष्ठी ! निप्रनतो मे ! भट्टिकाव्ये-~~-VIII. 122.
राक्षसानां मयि गते रामः प्रणिहनिष्यति ।
प्राणानामपणिष्टाय रावणस्त्वामिहानयन् ।। 493 ।। रामो राक्षसानां प्रणिहनिष्यति । संघातविगृहीतविपर्ययग्रहणादिह विपर्यासः । भट्टिकाव्ये-II. 35.
धर्मोऽम्ति सत्यं तव राक्षसाय___ मन्यो व्यतिस्ते तु ममापि धर्मः । ब्रह्मद्विषस्ते प्रणिहन्मि येन
राजन्यवृत्तिघृतकार्मुकेषु ॥ 494 ।। ब्रह्मद्विषस्ते प्रणिहन्मि । ब्रह्मद्विषं त्वां हन्मीत्यर्थः । माघे-XIV. 82.
निग्रहन्तुममरेशविद्विषा___ मर्थितः खयमथ खयंभुवा । सम्प्रति श्रयति पुत्रतामयं
कश्यपस्य वसुदेवरूपिणः ॥ 495 ॥ अमरेशविद्विषां निप्रहन्तुम् । चैद्यादीन् हन्तुमित्यर्थः ।
16