________________
कारकप्रकरणम्
ईष्टे तनजन्मतनोस्स नून
__ मत्पाणनाथस्तु नलस्तथापि ॥ 483 || तनजन्मतनोरात्मजशरीरस्येष्टे स्वामी भवतीत्यर्थः । शेषत्वस्याविवक्षितत्वाद् द्वितीया । किरातार्जुनीये-~-V. 14.
ग्रहविमानगणानभितो दिवं
ज्वलयतौषधिजेन कृशानुना । मुहुरनुस्मस्यन्तमनुक्षपं
त्रिपुरदाहमुमापतिसेविनः ॥ 486 || त्रिपुरदाहं मुहुरनुस्मरयन्तम् । माघे-XX. 65. निखिलामिति कुर्वतश्विराय
द्रुतचामीकरचारुतामिव द्याम् । प्रतिघातसमर्थमस्त्रमग्ने
स्थ मेघकरमस्मरन्मुरारिः ।। 487 ॥ मुरारिः वारुणमस्त्रमस्मरत् । भट्टिकाव्ये-XXII 6.
द्रष्टासि प्रीतिमानारासखिभिः सह सेविताम् । . . . सपक्षपातं किष्किन्धा पूर्वक्रीडां स्मरन्मुहुः ॥ 488 ॥
६१४ । कृञः प्रतियत्ने । (२. ३. ५३) प्रतियत्नो गुणाधानम् । कृञः कर्मणि शेषे षष्ठी स्याद्गुणाधानेः। एषो दकस्यो पस्करणम् । 'गन्धन ' (सू. 2705 ) इत्यादिना आत्मनेपदम् । 'उपात्प्रतियत्न' (स. 2552) इत्यादिना सुडागमः । भट्टिकाव्ये-VIII. 19.
कुलभायों प्रकुर्वाणमहं द्रष्टुं दशाननम् । यामि त्वरावान् शैलेन्द्र मा कस्यचिदुपस्कृथाः ।। 489 ॥