________________
पाणिनिसूत्रव्याख्या
शाखामृगी तदिह मारय मां शरेण
को नाम राम मृगयुदयते मृगीणाम् ।। 480 18 मृमीणां दयते । भट्टिकाव्ये-XV. 63.
स चापि रुधिरैर्मत्तः स्वेषामप्यदयिष्ट न । अग्रहोच्चायुरन्येषामरुद्ध च पराक्रमम् ॥ 481 !!
भट्टिकाव्ये -- IX. 57.
न प्राणिपि दुराचार मायानामीशिषे न च ।
नेडिघे यदि काकुत्स्थं तमूचे वानरो वचः ।। 482 ।। मायानां नेशिषे न प्रभवसि । मयि माया न प्रभवन्तीत्यर्थः । *भट्टिकाव्ये-XVIIT. 20.
ईष्टे धनानां यक्षेन्द्रो यमो दाम्यति राक्षसान् ।
तनोति वरुणः पाशमिन्दु! दीयतेऽधुना ।। 483 ॥ यक्षेन्द्रो धनानामीष्टे । स्वयमेव धनस्येशो भवति । भट्टिकाव्ये—XVIII. 15.
त्वमजानन्निद राजन्नीडिषे स्म स्वविक्रमम् ।
दातुं नेच्छसि सीतां स्म विषयाणां च नेशिषे ।। 484 18 विषयाणां शब्दादीनां नेशिषे स्म । विषयान्न जितवानसि । नैषधे-III. 79.
मनैषधायैव जुहोति तातः किं मां कृशानौ न शरीरशेषाम् ।
* मुदितपुस्तके न दृश्यते।