________________
कारकप्रकरणम्
अस्मिन्नेव ग्रन्थे श्लो० 216. भवत्याः स्मरता रामेण । चम्पूरामायणे-IV. 44. सुत्रामपुत्रारिशिलीमुखानां स्मृत्वा गणस्तत्र वलीमुखानाम् ।
अपामपारस्य निधेश्च पवादवाङ्मुखो वक्तुमवाङ्मुखोऽभूत् ।। 47611 शिलीमुखानां स्मृत्वा। भट्टिकाव्ये-VIII. 120.
रामस्य दयमानोऽसावध्येति तव लक्ष्मणः ।
उपास्कृषातां राजेन्द्रावागमस्येह मा त्रसीः ।। 477 ॥ रामस्य दयमानोऽसौ लक्ष्मणस्तवाध्येति त्वां स्मारयतीत्यर्थः । उभयत्र षष्ठी ।
भट्टिकाव्ये—II. 33.
आत्मम्भरिस्त्वं पिशितैर्नराणां ___ फलेग्रहीन्हसि वनस्पतीनाम् । शौवस्तिकत्वं विभवा न येषां
व्रजन्ति तेषां दयसे न कस्मात् ॥ 476 ॥ तेषां कस्मान्न दयसे । अस्मिन्नेव ग्रन्थे श्लो० 404. तज्जीवितस्य दयमानमनाः ।
चम्पूरामायणे-II. 2.
ग-विदितमेव हि भवतां शिवतातिमेव पतिं दधानास्लुफ्था संचरमाणाः प्राणिनां दयमानमानसा मानधना यश:समार्जनजागरूका जनोपतापसमाजनतत्पराः परां निर्वृतिमुपेत्य देवभूयं गताः सर्वे नः पूर्वपुरुषा इति ॥ 479 ॥
प्राणिनां दयमानमानसाः। चम्यूरामायणे-IV. 16. साधारणी क्षितिभृतां मृगयेति पूर्व
मुक्ता त्वयैव जनसंसदि सत्यवादिन् ।