________________
पाणिनिसूनव्याख्या
भट्टिकाव्ये-VI. 53
आस्ते स्मरन् स कान्ताया हृताया वालिना कपिः ।
वृषो यथोपसर्याया गोष्ठे गोर्दण्डताडितः ।। 471 ॥ कान्तायाः सरन् । भट्टिकाव्य-VI, 12.
इहासिष्टाशयिष्टेह सा सखेलमितोऽगमत् ।
अग्लासीत्संस्मरन्नित्थ मैथिल्या भरताग्रजः ॥ 472 | मैथिल्याः । षष्ठी । संस्मरन् । - अस्मिन्नेव ग्रन्थे श्लो0 247. गुरूणां तातपादानामुत्कण्ठमानोऽनर्थशया सशोकं स्मरन्नित्यर्थः ।
भट्टिकाव्ये-III. 18.
सूतोऽपि गङ्गासलिलैः पवित्वा __ सहाश्वमात्मानमनल्पमन्युः । ससीतयो राघवयोरधीयन्
श्वसन्कदुष्ण पुरमाविवेश ।। 473 ॥ ससीतयोः सीतासहितयो शवयोरधीयन् । रामलक्ष्मणौ सीतां च संस्मरन्नित्यर्थः । इक स्मरणे शतृ । भट्टिकाव्ये-XVIII. 38.
मूर्धजास्म विलुञ्चन्ति क्रोशन्ति स्मातिविह्वलम् ।
स्माधीयन्त्युपकाराणां मुहुर्भतुः प्रमन्यु च ॥ 474 || भर्तुश्चोपकाराणां मुहुरधीयन्ति स्म । भट्टिकाव्ये-XVII. 10.
आर्छन् वाम मृगाः कृष्णाः शस्त्राणां व्यस्मरन्भटाः ।
रक्तान्यष्ठीवदक्लाम्यदखिद्यद्वाजिकुञ्जरम् ॥ 475 ॥ भटाः शस्त्राणां व्यसरन् ।