________________
कारकप्रकरणम्
किरातार्जुनीये-XVIII. 38.
भवतः स्मरतां सदासने जयिनि ब्रह्ममये निषेदुधाम् ।
दहते भवबीजसन्ततिं शिखिनेऽनेकशिखाय ते नमः ।। 46611 भवतः स्मरतां भवन्तं ध्यायताम् । माघे—VI. 56.
इदमयुक्त महो महदेव य
द्वरतनोः सरयत्यनिलोऽन्यदा । स्मृतसयौवनसोष्मपयोधरान्
सतुहिनस्तु हिनस्तु वियोगिनः ।। 467 !! वरतनोः । षष्ठी । सरयति । माघे-V. 50.
क्षिप्तं पुरो न जगृहे मुहुरिक्षुकाण्ड
नापेक्षते स्म निकटोपगतां करेणुम् । ससार वारणपतिः परिमीलिताक्ष
मिच्छाविहारवनवासमहोत्सवानाम् ।। 468 !! महोत्सवानाम् । षष्ठी । सस्मार। माधे-VIII. 64.
दिव्यानामपि कृतविस्मयां पुरस्ता
दम्भस्तः स्फुरदरविन्दचारुहस्ताम् । उद्वीक्ष्य श्रियमिव काञ्चिदुत्तरन्ती
मस्मार्षीज्जलनिधिमन्थनस्य शौरिः ॥ 469 ।। जलनिधिमन्थनस्यासाषीत् । भट्टिकाव्ये--VIII. 128.
अदेवीद्वन्धुभोगानां प्रादेवीदात्मसम्पदम् ।
शतकृत्वस्तवैकस्याः स्मरत्यह्रो रघूत्तमः ।। 470 ॥ तव स्मरति ।