________________
पाणिनिसूनव्याख्या तकूलात्पञ्चमी । अविदूरमौलिस्तदुकूलस्यासन्नमौलिरित्यर्थः । अस्मिन्नेव ग्रन्थे श्लो० 445. देशतः । पञ्चम्यास्तसिः । दृशम् । अस्मिन्नेव ग्रन्थे श्लो० 446. भर्तुः । षष्ठी । अन्तिकम् । अस्मिन्नेव ग्रन्थे श्लो० 447. नासत्ययोः । षष्ठी । अन्तिकाद । अस्मिन्नेव ग्रन्थे श्लो० 448. गिराम् । षष्ठी । दूरे । अस्मिन्नेव ग्रन्थे लो० 449. रावणस्य रावणाद्वा अन्तिके शावणान्तिके ।
६१२ । ज्ञोऽविदर्थस्य करणे । (२. ३. ५१ जानातेरज्ञानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात् । भट्टिकाव्ये- VIII. 119.
जानीष्व प्रत्यभिज्ञानस्यातस्त्वमपि देवि ते ।।
आस्ते भतेति मां दृष्ट्वा भर्तुतं प्रियं कपिम् ॥ 464 ! प्रत्यभिज्ञानस्य प्रत्यभिज्ञानेन । जानातरवेदनार्थस्य करणे षष्ठी। जानीष्व । अनन्तरकर्तव्येऽभिज्ञानदानादौ प्रवर्तकस्येत्यर्थः । प्रवृत्तिवचनो जानातिरविदर्थ इति काशिका । सुहितार्थे करणे षष्ठीविधायक प्रमाणं नास्ति । 'पूरणगुणः " ( सू. '705) इति सूत्रेण करणे षष्ठयनुमीयते। 'नामिस्तृप्यति काष्ठानां नापमानां महोदधिः' ।
६१३ । अधीगर्थदयेशां कर्मणि । (२. ३. ५२) एषां कर्मणि शेषे षष्ठी स्यात् । मातुः स्मरणम् । सर्पिषो दयनमीशनं वा । अस्मिन्नेव ग्रन्थे श्लो० 267. ते । षष्ठी । स्मरामि । चम्यूभारते-I. 80. मन्द मन्दमुपेत्य तत्र सदसो मत्पाण्डुपुत्राङ्कुराः
केति प्रेमपुरःप्रसारितकरः कुर्वन्हढालिकनम् । स्पर्शस्पर्शमिमानिजाङ्कगमितान्भ्रातुः स्मरन्कौरव
श्चयोतद्भिर्नयनाम्बुभिः स विदधे शोकं नदीमातृकम् ।। 465 ।। भ्रातुः । षष्ठी। सरन् ।