________________
११३
“धिगुपर्यादिषु त्रिषु । द्वितीयाम्रेडितान्तेषु" (बा. 1444. सू. 544 ) इति द्वितीया । अस्मिन्नेव ग्रन्थे श्लो० 281 दृषदः द्वितीया । उपर्युपरि दृषदां समीपोपरिदेश इत्यर्थः ।
कारकप्रकरणम्
६१० । एनपा द्वितीया । ( २.३.३१ )
एनवन्तेन योगे द्वितीया स्यात् । एनपेति योगविभागात्षष्ठयपि । दक्षिणेन ग्राम ग्रामस्य वा । एवमुत्तरेण । ' एनवन्यतरस्याम् ' ( सू. 1984 ) इत्येनप् ।
भट्टिकाव्ये - VIII. 108.
दण्डकां दक्षिणेनाह सरितोऽद्रीन्वनानि च । अतिक्रम्योदधिं चैव पुंसामगममाहृता ॥ 460 ||
दण्डकां दक्षिणेन, दण्डकाया दक्षिणतः । मेघसन्देशे - II. 12
तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं दूरालक्ष्यं सुरपतिधनुश्चारुणा तोरणेन । यस्योपान्ते कृतकतनयः कान्तया वार्धितो मे
हस्तप्राप्यस्तवकनमितो बालमन्दारवृक्षः ॥ 461 ॥
राघवे - VII. 5.
ग---
- देवि वैदेहि दृश्यतामितो लङ्कां पूर्वेण सुवेलं पश्चिमेन | 462 1 ६११ । दूरान्तिकार्थैः षष्ठयन्यतरस्याम् । ( २. ३. ३४.)
15
एतैर्योगे षष्ठी स्यात्पञ्चमी च । ग्रामस्य ग्रामाद्वा दूरं दूराद्दूरेण दूरे वा !. अन्तिकमन्तिकादन्ति केनान्तिके वा ।
अस्मिन्नेव ग्रन्थे लो० 444. महेन्द्रस्य षष्ठी ।
विन्ध्यपर्वतात् पंचमी । नानभ्याशे समुद्रस्य षष्ठी ।
कुमारसम्भवे - VII. 41.
न विप्रकृष्टं न दूरम
उपाददे तस्य सहखरश्मिस्त्वष्ट्रा नवं निर्मितमातपत्रम् ।
स तदुकूलादविद्रमौलिर्बभौ पतङ्ग इवोत्तम ॥ 468 4