________________
११३
पाणिनिसूत्रव्याख्या
वा० । निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम् । ( 1478. )
किं निमित्तं वसति, केन निमित्तेन, कस्मै निमित्ताय इत्यादि । एवं किं कारण,
को हेतुः, किं प्रयोजनम् इत्यादि ।
अस्मिन्नेत्र ग्रन्थे श्लो० 402. कस्य हेतोः ।
किरातार्जुनीये—- XIV. 15.
मृगान्विनिनन्मृगयुः स्वहेतुना कृतोपकारः कथमिच्छतां तपः )
कृपेति चेदस्तु मृगः क्षतः क्षणादनेन पूर्वं न मयेति का गतिः ॥ 457 18
स्वमात्मैव हेतुः तेन स्वहेतुना | स्वार्थमित्यर्थः ।
माघे - XVIII, 48.
हस्तेनाग्रे वीतभीतिं गृहीत्वा कंचिचाः क्षिप्तवानूर्ध्वमुचैः । आसीनानां व्योम्नि तस्यैव हेतोः । स्वर्गस्त्रीणामर्पयामास नूनम् ॥ 458 ॥
तस्यैव हेतोस्तेनैव हेतुना । तद्वरणार्थमेव ।
६०९ । पष्ठ्यतसर्थप्रत्ययेन । ( २. ३.३० )
एतद्योगे षष्ठी स्यात् । दिक्शब्द अन्यारादिति पञ्चम्या अपवादः । ' दक्षिणोचराभ्यामतसुच् (सू. 1978 ) इत्यतसुच् । ग्रामस्य दक्षिणतः पुरः पुरस्तात् उपरि उपरिष्टात् ।
अस्मिन्नेव ग्रन्थे श्लो० 418. लवणतोयस्य दक्षिणतः दक्षिणदिग्भागे । किरातार्जुनीये - XII. 11.
परिकीर्णमुद्यतभुजस्य भुवनविवरे दुरासदम् ।
ज्योतिरुपरि शिरसो विततं जगृहे निजान्मुनिदिवौकसां पथः ॥ 459 ॥ शिरस उपरि इति षष्ठी ।