________________
भट्टिकाव्ये - X. 46.
कारकप्रकरणम्
मधुकरविरुतैः प्रियाध्वनीनां सरसिरुहैर्दयिता त्यहा स्यलक्ष्म्याः ।
स्फुटमनुहरमाणमादधानं
पुरुषपतेः सहसा परं प्रमोदम् ॥ 454 ||
अनुहरमाणमनुकुर्वन्तम् ।
६०७ । षष्ठी हेतुप्रयोगे । ( २. ३. २६ )
हेतुशब्दप्रयोगे हेतौ द्योत्ये षष्ठी स्यात् । अन्नस्य हेतोर्वसति ।
किरातार्जुनीये - XII. 47.
चमरीगणैर्गणचलस्य बलवति भयेऽप्युपस्थिते । वंशविततिषु विषक्तपृथुप्रियचालवालधिभिराददे धृतिः ॥ 455 || गणबलस्येति सम्बन्धमात्रविवक्षायां षष्ठी । अन्यथा ' भीतार्थानां भयहेतुः ' (सू. 588 ) इति पञ्चमी स्यात् ।
रघुवंशे – II. 47.
एकातपत्र जगतः प्रभुत्वं
१११
नवं वयः कान्तमिदं वपुश्व ।
अल्पस्य हेतोर्बहु हातुमिच्छन्
विचारमूढः प्रतिभासि मे त्वम् ॥ 456 ||
अल्पस्य हेतोः । अल्पेन कारणेन ।
अस्मिन्नेव ग्रन्थे श्लो० 435. मैथिल्या बोधस्य हेतोः । बोधहेतौ सति । - बोधार्थमित्यर्थः ।
६०८ | सर्वनाम्नस्तृतीया च । ( २.३.१७ )
सर्वनाम्नो हेतुशब्दस्य च प्रयोगे हेतौ द्योत्ये तृतीया स्यात्पष्ठी च । केन हेतुना बसति । कस्य हेतोः ।