SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ तदर्थवर्णनोदाहरणप्रदर्शनतत्प्रक्रियाकथनदलपयोजनविचारादिपूर्वकमध्यापके पाठयति सति तच्छ्रवणोन्मुख्यं तदर्थावगमश्च केषाञ्चित् शास्त्रवासनावासितान्तःकरणानामेव भवेन्न सर्वेषाम् । . अतश्विरादनुवर्तमानामिमामेकरूपां रीति परित्यज्य अनया सह, व्याकरणग्रन्थो. दाहृतानि पदानि वाक्यानि वा योजयित्वा येन कविना गयानि श्लोका वा न्यबन्विषत तानपि प्रतिसूत्रं प्रदर्य तदर्थवर्णनञ्च कृत्वा सूत्रोदाहरणभूतं पदमिहास्तीति निर्दिश्यते चेत् वस्तुतः काव्यश्लोकानां हृदयरक्षकतया सूत्रतात्पर्यदलप्रयोजनादिश्रवणकृतक्लेशभाङ् मनः नून कञ्चनाह्वादविशेषं लप्स्यते । अनेनाध्यापनमार्गेण साहित्य व्युत्पत्तिरपि सम्पादिता भवति अशेन व्याकरणव्युत्पतिरपि । तथा लक्ष्यानुसारित्वात् प्रयुक्तान्वाख्यानत्वाञ्च व्याकरणस्य सूत्रोदाहरणानि प्रयुक्तानि स्युर्वा इत्येवं आपातत उद्यन् संशयोऽप्यपगमिष्यति । . प्रकृतेऽस्माभिर्मुद्रणीयतया उपातः प्रदर्शितां रीतिमेवावलम्ब्य श्रीमवा मणलर् वीरराघवाचार्येण विरचितः पाणिनिसूत्रव्याख्याख्यो ग्रन्थोऽपि सर्वेषामुपकारको भविष्यति व्याकरणाध्ययनश्रद्धां जनयिष्यतीति च विश्वसिमः । अयं ग्रन्थकर्तापि श्रीभट्टोजीदीक्षितचरणाः स्वकीयसिद्धान्तकौमुद्यां यं क्रममवलम्ब्य सूत्राणि व्याचख्युः तमेव क्रममनुसरति । अनेन संज्ञाप्रकरणसन्धित्रयशब्दाधिकाराव्ययप्रकरणानि न व्याख्यातानि व्याख्यातानि वा अस्माभि!पलब्धानि । स्त्रीप्रत्ययप्रकरणमारभ्य लिझानुशासनप्रकरणपर्यन्तं विद्यमानानि सूत्राणि व्याख्यातानि । तत्रापि मध्ये मध्ये कानिचित्सूत्राणि सन्त्यक्तानि । कानिचित्सूत्राणि विनैव काव्यश्लोकोदाहरणं वृत्त्या सह पठितानि । प्रतिसूत्र सिद्धान्तकौमुद्यां वर्तमाना वृत्तिस्तदुदाहरणानि चेह पुनः पश्यन्ते । परन्तु उदाहृतपदानां काव्यश्लोकेदाहृतत्वप्रदर्शन ग्रन्थकृदकरोत् क्वचिदुदाहरणानि व्यवृणोच्च । ___ बालमनोरमायामाश्रिता सूत्रक्रमसङ्खयैव इहाप्याश्रिता । केषाञ्चित्सूत्राणां परित्यागात् क्वचिसंख्यानुस्यूतिर्न वर्तते । उदाहरणश्लोकेषु गयेषु वा विद्यमानानि उदा'हरणानि बृहद्भिः अक्षरैर्मुद्रितानि । उदाहरणानि चात्र गद्यपद्यात्म कानि अघोनिर्दिष्टेभ्यो ग्रन्थेभ्य उद्धृतानि - भट्टिकाव्यम् , शिशुपालवधम् , अनवराघवम् , किरातार्जुनीयम् , नैषधम् , . रघुवंशः, भोजचम्पूः, कुमारसंभवः, चम्भूभारतम् , मेघसंदेशः, श्रीमद्वारमीकिरामायणम् ,
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy