SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ प्रास्ताविकम् । अतिरोहितमिदं सर्वेषामेव संस्कृतयाथाम्यवेदिनां रसिकजनानां यत् सम्प्रति लोके प्रचरन्तीषु सर्वासु भाषासु, देवैरपि व्यवह्रियमाणा अत एव 'संस्कृतं नाम दैवी वागन्वाख्याता महर्षिभिः' इति तत्रभवता दण्डिना मुक्तकण्ठमुद्देष्यमाणा, इहापि मानुषे लोके 'शवतिर्गतिकर्मा कम्बोजेष्वेव भाषितो भवति विकार एनमार्या भाषन्ते शव इति । हम्मतिः सुराष्ट्रषु, रंहतिः प्राच्यमध्यमेषु, गमिमेव त्वार्याः प्रयुञ्जते । दातिलवनार्थे प्राच्येषु, दात्रमुदीच्येषु ।' इत्यादिमहाभाष्यवाक्यपर्यालोचनेन व्यवहारपथमलमकाप्टेंत्यवगम्यमाना संस्कृतभाषेवोत्कर्षविशेषमश्नुते इति । अनितरसाधारणमस्याः संस्कृताख्यं नामापि इतराभ्यो विद्यमानमुत्कर्षे सूचयति । तत्किल नामधेय तामेव भाषामाख्यातुं प्रभवति या संस्कारविशेष प्राप्ता प्रापिता वा। भगवता पाणिनिना साध्वसाधुशब्दविवेचनपूर्वकं संस्कार प्रापिता, तत्रभवता वररुचिना उक्तानुक्तदुरुक्तादिचिन्तनमुखेनाभिवर्धिता, सर्वपथीनप्रतिभाशालिना महर्षिणा पतन्जलिना व्यवहारघण्टापथमानीता एवमन्वर्थनानी संस्कृतभाषैव संस्कृतशब्दव्यपदेशमर्हति । नैवरूपो व्याकरणसंस्कार इतरासु भाषासु वर्तते । इदानीन्तनाः केचिजना एवमाशेरते यत् सम्कृतं सर्वैरक्लेशेन व्यवहर्तुमशक्या भाषा, यतस्तदीय व्याकरणमुत्सर्गापवादबहुलं मितम्पचमतिदुरूशैलीगुम्फितं चकास्तीति । वयं तु मन्यामहे सत्स्वपीतरेग्वेतदुत्कर्षाधायकेषु हेतुषु तैरुच्यमानमिदमेकमेव अस्या इतरोत्कर्ष द्रढयितुं पर्याप्तमिति । सर्वलक्ष्यानुगुणं इतरापरिदृश्यमानाव्याप्त्यतिव्याप्त्यादिदोषरहितशब्दसाधुत्वशिक्षणकृत् तत्तत्कालिकनियमपरिणामादिकृवाव्यवस्थाशून्यं सम्पूर्ण व्याकरण न कस्या अपि भाषाया अस्ति ऋते संस्कृतात् । लक्ष्यग्रन्थपठनापेक्षया लक्षणभूतव्याकरणाध्ययने अन्यास्वपि भाषास्वनुभूयमान काठिन्य संस्कृतेऽपि समान न दोषमावहेत् । कियतश्चित् कालादारभ्य संस्कृताभिवृद्धि कांक्षमाणाः केचित् व्यवहारमार्गात्परिभ्रष्टा दुरूहव्याकरणोपेता सेयं भाषा केनोपायेन, विना क्लेशं इतरभाषावयवहारगोचरतां नेतुं शक्येति चिन्तयन्तः एवमभिप्रयन्ति, यत् 'संस्कृतव्याकरण विपरिणमनीयम् । तत्रत्या नियमास्सकोचनीयाः' इत्यादि । उत्कर्षसम्पादकत्वेनाभ्यूह्यमानोऽयं नूनः पन्था नूनं वर्तमानमप्यतिशय निम्सार्य संस्कृतापकर्षमेव सम्पादयिष्यति । दुरूहस्य व्याकरणस्य पठने परिमितमतीनामपि श्रद्धा उत्पादनीया चेत्, न तत्र विद्यमानव्याकरणान्यथाकरणमुपायो भवितुमर्हति । किन्तु येन प्रकारेण कठिनारेऽपि ग्रन्थेऽध्याप्यमाने सर्वेषां शुश्रषा अनायासबोधश्च जायेत स कश्चिदध्यापनमार्गोऽवलम्बनीयः। सौनपदविभाग
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy