________________
VI
विश्वगुणादर्शः, उतनामचरितम् , भोजचन्त्रिन , चलीपरिणयच, यामुनमुनिविरचितस्तोत्ररत्नम् ।
उदाहृताश्चात्र शोका यत्र काव्ये यत्र सर्गे यया वा संख्यया उपलभ्यन्ते ते तथैवाल निर्दिष्टाः । अत्रोदा हतानि गद्यानि 'ग' इत्येवंरूपेण चिहेनोपक्रम्य मुदितानि । परन्तु तेषां गद्यानां काव्येषु पृथक् सख्याया अनुपलम्मात् ततः अव्यवहितस्य श्लोकस्य या संख्या सेवाभापि न्यवेशि । अत्रोदारणतया प्रदश्यमानानां गधानां पद्यानाञ्च एकरूपा संख्यैव दत्ता न गयानां पृथक् । एकत्रोदाहृतयोगद्यपद्ययोरुदाहरणार्थं पुनरुपादाने न तत्र पुनत लिख्यते । अपि तु 'अस्मिन्नेव ग्रन्थे श्लो.' इति वा 'ग० । इति वा प्रदाते।
भागद्वयात्मना मुमुद्रापयिषितोऽयं ग्रन्थः । सम्प्रति मुद्राप्यमाणे प्रथमभागे स्त्रीप्रत्ययप्रकरणमारभ्य द्विरुक्तप्रकरणान्तर्गतानि सूत्राणि वर्तन्ते । उत्तरार्धप्रकरणं द्वितीयभागात्मना आगामिनि वत्सरे मुद्रापयिष्यते । एतद्ग्रन्थाध्ययनाध्यापना धुपयोगिन्यः सूत्रवार्तिकोदाहरणश्लोकोदाहृतपदप्रकृतव्याख्याकर्तृनिर्दिष्टग्रन्थतत्कर्त सूचिका अपि द्वितीयभागे प्रकाशयिष्यन्ते ।
एतद्ग्रन्थमुद्रापणाय आदर्शतया मद्रपुरराजकीयपाच्यपुस्तकभाण्डागारस्थः सम्पूर्णः भागद्वयात्मकः ग्रन्थाक्षरलिखितः पत्रात्मकश्च एकः कोशः परिगृहीतः ।
( R. 4395 a) एतद्ग्रन्थमुदापणोपयोगिमातृकां निर्माय नानाग्रन्थपरिशीलनपूर्वकं पाठान् शोधयित्वा नान्तरीयकं सकलमपि श्रममविगणय्य प्रतिदिनं मुद्रणालयादागच्छन्ति भागप्रयात्मना विभक्तानि पत्राणि संशोध्य परिमित एव काले महतोऽस्य कार्यस्य निर्वर्तने महदुपकृतवतां एतत्कोशालयसंस्कृतपण्डितानां श्रीयुतानां विश्वनाथ, रामानुज, वैद्यनाथ, कल्याणसुन्दरमहोदयानां कृते मदीयां कृतज्ञतामावेदयामि । तथा अस्माभिर्नियमिते काले विलम्बमन्तरेण एतन्मुद्रणं सम्पादितवतां रत्नमुद्रणालयाधिकृतानाश्च कार्तस्य प्रकटयामि ।
मद्रपुरी, 11-6- 1954.
ति. चन्द्रशेखरः।