________________
पाणिनिसूत्रव्याख्या वेदाध्ययनादनन्तरमित्याचार्याः । कुमारसंभवे-VI. 9.
सर्गशेषप्रणयनाद्विश्वयोनेरनन्तरम् ।
पुरातनाः पुराविद्भिर्घातार इति कीर्तिताः ।। 429 || खुवंशे-III. 7. क्रमेण निस्तीर्य च दोहदव्यथा
प्रचीयमानावयवा राज सा । पुराणपत्रापगमादनन्तरं .
लतेव सन्नद्धमनोज्ञपलवा 1430॥ कुमारसम्भवे--VI. 98.
वैवाहिकी तिथि पृष्टास्तत्क्षण हरबन्धुना ।
ते वयहादूर्ध्वमाख्याय चेरुश्वीरपरिग्रहाः ।। 43i || देशकालयोगे पञ्चमी। नैषधे-VI. 86. इत्युक्तवत्या निहितादरेण
भैम्या गृहीता मघवत्प्रसादः । स्रपारिजातस्य ऋते नलाशा
वासैरशेषामपुपूरदाशाम् ॥ 432 ।। नलाशामृते । पञ्चम्येव विहिता । मतान्तरे द्वितीयाप्यस्तीत्याहुः ।
५९६ । अपपरी वजने । (१, ४, ८८ ) एतौ वजने कर्मप्रवचनीयौ स्तः।
५९७ । आङ् मर्यादावचने । (१.४. ८९) माङ् मर्यादायामुक्तसंज्ञः स्यात् । वचनग्रहणादभिविधावपि ।
५९८ । पञ्चम्यपापरिभिः । (२. ३. १०) एतैः कर्मप्रवचनीयैोंगे पंचमी स्यात् । अप हरेः, परि हरेः, संसारः । या मुक्तेः संसारः । 'अपरिबहिरञ्चवः पञ्चम्या' (सू. 666 ) इति वा समासः ।