________________
कारकप्रकरणम्
प्रस्थानकालक्षमवेषकल्पना
कृतक्षणक्षेपमुदैवताच्युतम् ।। 4.24 ।। तोरणाद्धहिः। रघुवंशे-VIII. 14.
स किलाश्रममन्त्यमाश्रितो
निवसन्नावसथे पुरादहिः । समुपास्यत पुत्रभोग्यया
स्नुषयेवाविकृतेन्द्रियः श्रिया ॥ 425 || देशकालवृत्तिना योगेऽपि पञ्चमी। रघुवंशे-I. 66.
नूनं मत्तः परं वश्याः पिण्डविच्छेददर्शिनः ।
न प्रकामभुजः श्राद्धे खघासंग्रहतत्पराः ।। 426 ।। मत्तः परं मदनन्तरम् । पंचम्यास्तसिल । रघुवंशे-I. 67.
मत्परं दुर्लभं मत्वा नूनमावर्जितं मया ।
पयः पूर्वः सनिश्वासैः कवोष्णमुपभुज्यते ॥ 427 ।। माघे-~XVIII. 1.
संजम्माते तावपायानपेक्षौ
सेनाम्भोधी धीरनादौ रयेण । .. पक्षच्छेदात्पूर्वमेकत्र देशे
वाल्छन्तौ वा सह्यविन्ध्यौ निलेतुम् ॥ 428 ॥ . पक्षच्छेदात्पूर्वम् । तस्यानन्तरमिति भाष्ये दर्शनात् संबन्धमात्रे षष्ठी । अथातो ब्रह्मजिज्ञासा ।