________________
१०२
पाणिनिसूत्रव्याख्या
कुमारसम्भवे-II. 4.
नमस्त्रिमूर्तये तुभ्यं प्राक्सृष्टेः केवलात्मने ।
गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे ।। 420 ॥ सृष्टेः प्राक् । अचूतरपदयोगेन पञ्चमी । चम्यूभारते-IX. 4.
तेषां कुरूणां कलहोदयात्माक्
स्थवनानां करिबंहितानाम् । आशामशेषां स्ववशे विधातु.
__मन्योन्यमासीत्कलहो महीयान् ।। 421 ।। पूर्ववपंचमी। कुमारसम्भवे--III. 26.
असूत सद्यः कुसुमान्यशोकः
स्कन्धात्प्रभृत्येव सपल्लवानि । पादेन नापैक्षत सुन्दरीणां
संपर्कमाशिञ्जितनूपुरेण || 422 ॥ स्कन्धात्मकाण्डात्प्रभृत्येव स्कन्धादारभ्येत्यर्थः । भाष्यकारवचनात्प्रभृतियोगे पञ्चमीति कैयटः । कुमारसंभवे-V. 86.
अद्य प्रभृत्यवनतानि तवास्मि दासः
क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ । अह्राय सा नियमजं क्लममुत्ससर्ज
क्लेशः फलेन हि पुनर्नवतां विधत्ते ।। 423 ।। अद्य प्रभृति अस्मादिनादारभ्य। प्रभृतियोगादद्येति सप्तम्यर्थवाचिनः पंचम्यों लक्ष्यते । माघे-. XII. 1.
इत्थं स्थाश्वेभनिषादिनां प्रगे
गणो नृपाणामथ तोरणादहिः।