SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ कारकप्रकरणम् १०१ ५९५ | अन्यारादितस्तै दिक्शब्दाञ्चूत्तरपदाजाहियुक्ते । ( २. २. २९ ) एतैर्योगे पञ्चमी स्यात् । अन्य इत्यर्थग्रहणम् । इतरग्रहण प्रपचार्थम् । अन्यो भिन्न इतरो वा कृष्णात् । आराद्वनात् । ऋते कृष्णात् । पूर्वो ग्रामात् । दिशि दृष्ट शब्दो दिक्शब्दः । प्राक् प्रत्यग्वा ग्रामात् । आच, दक्षिणा ग्रामात् | आहि, दक्षिणाहि ग्रामात् । ' अपादाने पंचमी 'ति (सू. 587) सूत्रे ' कार्तिक्याः प्रभृती 'ति भाष्यप्रयोगात् प्रभृत्यर्थयोगे पञ्चमी । भवात्प्रभृति आरभ्य वा सेव्यो हरिः । ' अपपरिवहिः ' ( सू. 666 ) इति समासविधानाज्ज्ञापकाद्वहिर्योगेऽपि पञ्चमी । ग्रामाद्वहिः । भट्टिकाव्ये - VIII. 105. : पूर्वस्मादन्यवद्धाति भावाद्दाशरथिं स्तुवन् । ऋते क्रौर्यात्समायातो मां विश्वासयितुं नु किम् ॥ 416 ॥ पूर्वस्मात्क्षणं दृष्टाद्रावणादन्यवद्धाति । क्रौर्याते क्रौं विहाय । 1 भट्टिकाव्ये - VIII. 106. इतरो रावणादेष राघवार्थपरो यदि । सफलानि निमित्तानि प्राक् प्रभातात्ततो मम || 417 रावणादितर: । प्रभातात्प्राक् । इतरपदाचत्तरपदयोगात्पञ्चम्यौ । 1 भट्टिकाव्ये - VIII. 107. उत्तराहि वसरामः समुद्राद्रक्षसां पुरीम् । अल्लवणतोयस्य स्थितां दक्षिणतः कथम् || 418 | - समुद्रादुत्तराहि उत्तरदिग्भागे दूरे । 'आहि च दूरे ' ( सू. 1986. ) ' उत्तराव' (सू. 1987 ) इत्याहिप्रत्ययः । तद्योगात्समुद्रादिति पंचमी | भट्टिकाव्ये - XXII. 33. दीपतुल्यः प्रबन्धोऽयं शब्दलक्षणचक्षुषाम् । हस्तामर्ष इवान्धानां भवेद्वयाकरणाद्यते ॥ 419 ॥ ऋतेयोगाद्वयाकरणादिति पंचमी ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy