________________
१००
पाणिनिसूत्रव्याख्या
राघवे – II. 87.
असौ सीरध्वजो राजा यो देवाद मणेरपि । अध्यैष्ट याज्ञवल्क्यस्य मुखेन ब्रह्मसंहिताम् || 414 ||
सीरध्वज जनकः घुमणेः सूर्यात् । पंचमी । अध्यैष्ट अधीतवान् । इङ -अध्ययने लुङ् । ब्रह्मसंहितां वेदान्तम् । याज्ञवल्क्यस्य मुखेन । याज्ञवश्वयेन सूर्यादीतम् । ततो जनकेन । सूर्यप्रशिष्योऽयमित्यर्थः ।
1
५९३ । जनिकर्तुः प्रकृतिः । (१.४.३० )
जायमानस्य हेतुरपादानं स्यात् । ब्रह्मणः प्रजाः प्रजायन्ते । अस्मिन्नव ग्रन्थे ० 413. वायोः प्रकृतिभूताज्जात उत्पन्नः ।
५९४ । भुवः प्रभवः । (१. ४. ३१ )
मूकर्तुः प्रभवस्तथा । हिमवतो गङ्गा प्रभवति । तत्र प्रकाशत इत्यर्थः । अस्मिन्नेव ग्रन्थे श्लो० 418. आदित्यात्प्रभवन्तीमिव तेजसा सूर्यात्प्रादुर्भवन्तीमिव स्थिताम् । आदित्यस्यापादानत्वम् ।
वा० । स्यलोपे कर्मण्यधिकरणे च । ( 14741475.)
प्रासादात्प्रेक्षते । प्रासादमारुह्य प्रेक्षत इत्यर्थः । आसनात्प्रेक्षते । आसन उपविश्य प्रेक्षत इत्यर्थः । श्वशुराज्जिहति श्वशुरं वीक्ष्येत्यर्थः ।
अस्मिन्नेव ग्रन्थे श्लो० 387. तस्मात् तमकम्पनं वीक्ष्य तेपे लज्जितम् ।
माघे - XVIII 51.
आक्रम्यैकामग्रपादेन जङ्घामन्यामुचैराददानः करेण ।
सास्थिखानं दारुवद्दारुणात्मा
केचिन्मध्यात्पाटयामास दन्ती ॥ 415 ||
मध्यात्पाटयामास । मध्यं विभज्य पाटयामास ।