________________
काररूप्रकरणम्
५९० । वारणाथानामीप्सितः । (१. ४. २७)
प्रवृत्तिविघातो वारणम् । वारणार्थानां घातूनां प्रयोगे ईप्सितोऽर्थोऽपादानं स्यात् । यवेभ्यो गां वारयति ।
अस्मिन्नव ग्रन्थे श्लो० 410. दशाननात्स्वकान्तादीप्सितातत्कान्ताभि : सीताचापलशतिनीभिः रक्ष्यां वार्याम् ।
५९१ । अन्तधौं येनादर्शनमिच्छति । (१. ४. २८)
व्यवधाने सति यत्कर्तृकस्यात्मनो दर्शनस्याभावमिच्छति तदपादानं स्यात् । मातुनिलीयते कृष्णः ।
अस्मिन्नेव ग्रन्थे श्लो० 410. रक्षोभ्योऽन्तर्दधानां रक्षांसि मां मा द्राक्षुरिति लीयमानाम् । भट्टिकाव्ये-VI. 16.
अहं न्यवधिष भीम राक्षसं करविक्रमम् ।
मा घुक्षः पत्युरात्मानं मा न लिक्षः प्रियं प्रिये ॥ 412 ।। आत्मानं पत्युः पञ्चमी, सम्बन्धसामान्ये षष्ठी वा ! मा घुक्षः मा संवृणु । गुहू संवरणे लुङ् ।
५९२ । आख्यातोपयोगे । (१. ४. २९) नियमपूर्वकविद्यास्वीकारे वक्ता प्राक्संज्ञः स्यात् । उपाध्यायादधीते । उपयोगे किम् ? नटस्य गाथां शृणोति । मट्टिकाव्ये VIII. 72.
रामादधीतसन्देशो वायोर्जातश्चद्युतस्मिताम् ।
प्रभवन्तीमिवादित्यादपश्यत्कपिकुञ्जरः ।। 413 ॥ रामादाख्यातुरधीतसन्देशो भक्तया गृहीतवाचकः । रामस्यापादानत्वम् ।
अस्मिन्नेव ग्रन्थे श्लो० 228. यः प्रभुः खामी हितादासजनाधितोपदेष्टुः सकाशात् । पंचमी । न संभृणुते न शृणोति ।