SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ - पाणिनिसूत्रव्याख्या भट्टिकाव्ये-XVIII. 8. सर्वस्य जायते मानः स्वहिताच प्रमाद्यति । वृद्धौ भजति चापथ्यं नरो येन विनश्यति ॥ 408 !! -५८८. । भीत्रार्थानां भयहेतुः । (१. ४. २५) भयार्थानां त्राणार्थानां च योगे भयहेतुरपादानं स्यात् । चोराद् बिभेति चोरात्रायते । अस्मिन्नेव ग्रन्थे श्लो० 401. राक्षसाद्रावणाद् विभ्यती। शलो। रावणास्त्राणम् । उभयत्रापादानसंज्ञा । अनर्घराघवे-VI. 18. व्यावर्तध्वमुपाध्वमुद्धशरज्वालामुखीं मातरं देवीमस्त्रमयीं प्लङ्गपशवः पश्यन्ति पृष्ठानि वः । चेतः शक्रजितोऽपि लक्ष्मणवधे बद्धोत्सवं मध्यमः पौलस्त्यः स्वयमायुध विधृतवानद्यापि रामाद्भयम् ।। 409 ।। ५८९ । पराजेरसोढः । (१. ४. २६) पराजेः प्रयोगे असह्योऽर्थोऽपादानं स्यात् । अध्ययनात्पराजयते । लायतीत्यर्थः । असोढः किम् । शत्रन्पराजयते ! अभिभवतीत्यर्थः । भट्टिकाव्ये-VIII. 71. तां पराजयमानां सप्रीते रक्ष्यां दशाननात् । अन्तर्दधानां रक्षोभ्यो मलिनां म्लानमूर्घजाम् ॥ 410 ॥ रावणस्य प्रीतेरनुरागात्पराजयमानां तामसहमानाम् । 'विपराभ्यां जेः। (सू. 2685 ) इत्यात्मनेपदम् । भट्टिकाव्ये-VIII. 9. खं पराजयमानोऽसावुन्नत्या पवनात्मजम् । जगादादिविजेषीष्ठा मयि विश्रम्य वैरिणम् ॥ 411 || खमिति द्वितीया । पराजयमानोऽभिभवन् । इदं प्रत्खुदाहरण भवति ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy