________________
पाणिनिसूत्रव्याख्या
प्राणिवजें मन्यतेः कर्मणि चतुर्थी वा स्यात्तिरस्कारे । न त्वां तृणं मन्ये तृणा वा | इयना निर्देशात्तानादिकयोगे न ।
अस्मिन्नेव मन्ये लो० 305. त्रिजटा राक्षसीस्कृणाय मत्वा तृणे जत्वा ।
९४
चम्पूभारते - III. 41.
एला लवङ्गतरुपिप्पलिका पटीरताम्बूलिकाकमुकदम्पतिभावरम्याम् ।
उद्यानभूमिमुपगन्न तया स पार्थः
मुख्यत् पितुः परममन्यत बल्बजेभ्यः || 392
सपा इन्द्रपदं बल्वजेभ्योऽमन्यत । तानिवानादृतवान् । चम्पूभारते – VI. 66.
-
गन्धर्वानपि दयितांस्तृणाय मत्वा मामेव रतिविधये प्रतीक्षसे यत् ।
देवत्वादपि सुतनु त्वयाधुना
मत्त्वं जगति महत्तरं हि क्लृप्तम् ॥ 398 ||
नैषधे – VI. 32.
तस्माददृश्यादपि नातिचिभ्यु
स्तच्छायरूपा हितमोहोला:
मन्यन्त एवाहतमन्मथाज्ञाः
प्राणानपि वान्सुदृशस्तृणानि ॥ 394 ॥
सुदृशः खान्प्राणान् तृणानि मन्यन्त एव । मन्यतेः कर्मणि चतुर्ष्या वैभाषिकत्वादू द्वितीया ।
५८५ । गत्यर्थकर्मणि द्वितीयाचतुथ्यैौ चेष्टायामनध्वनि । ( २.३.१२ ) अत्रे गत्यर्थानां कर्मण्येते स्तश्चेष्टायाम् । ग्रामं ग्रामाय वा गच्छति ।
नैषघे - V. 42.
वीक्षितस्त्वमसि मामथ गन्तुं तन्मनुष्य जगतेऽनुमनुष्व ।