________________
কাজসজ্জা
किं भुवः परिवृढा न विवोर्ल्ड
तत्र तामुपगता विवदन्ते ।। 395 ।। मनुष्यजगते गन्तुं मर्त्यलोक गन्नुमित्यर्थः ।
अस्मिन्नेव ग्रन्थे श्लो० 335. स रावणो मन्दिशय प्रतिव्रजन मन्दिर गच्छन् । भट्टिकाव्ये-III. 9.
ततः प्रविवाजयिषुः कुमार___ मादिक्षदस्याभिगम बनाय । सौमित्रिसीतानुवरस्य राजा
सुमन्त्रनेत्रेण रथेन शोचन ।। 396 ।। राजा दशरथो बनायाभिगमं आदिक्षदाज्ञापितवान् ।
भट्टिकाव्ये-- III, 6.
मातामहावासमुपेयिवांस
मोहादपृष्ट्वा भरतं तदानीम् । तत्केकयी सोढुमशक्नुवाना
ववार रामस्य वनप्रयाणम् ।। 397 ।। वनाय प्रयाण वनप्रयाणम् । 'चतुर्थी' इति योगविभागात्समासः । चम्पूरामायणे-II. 27.
मातुगज्ञां वहन्मूर्ती मालामिव महायशाः ।
वनाय रामो वबाज जगतामवनाय च ॥ 398 ।। रामो वनाय वव्राज । भट्टिकाव्ये-I. 25.
प्रयास्यतः पुण्यवनाय जिष्णो
रामस्य रोचिष्णुमुखस्य धृष्णुः ।