________________
कारकप्रकरणम्
बम्यूमारते -- V. 23.
भद्र स्वस्त्यस्तु तुभ्यं चिरमिह जरया निद्रयाप्यातुरोऽहं
प्रत्युत्थानादिकर्मण्यपटुवयवैरस्मि तस्मात्त्वमेव । जात्यावस्थानरीत्यापि च विपिनपथे प्राप्ततिर्यक्त्वमेन
वालाग्रे मां विकृष्य द्रुतमभिलषितप्राप्तये साधयेति ।। 888 ।। तुभ्यं स्वस्त्यस्तु । कुमारसम्भवे-V. 79.
तदङ्गसंसर्गमवाप्य कल्पते
ध्रुवं चिताभस्मरजो विशुद्धये । तथा हि नृत्याभिनय क्रियाच्युतं
विलिप्यते मौलिभिरम्बरौकसाम् ।। 389 ॥ चिताभस्मरजः विशुद्धये कल्पते । अलं पर्याप्तं भवतीत्यर्थः । माघे-I. 49.
प्रभुव॒भूषुर्भुवनत्रयस्य यः
शिरोऽतिरागादशम चिकर्तिषुः । मतर्कयद्विघ्नमिवेष्टसाहसः
प्रसादमिच्छासहशं पिनाकिनः ॥ 390 ।। भुवनत्रयस्थ प्रभुरिति षष्ठी ।
मेघसंदेशे-I. 55.
तत्र व्यक्तं दृषदि चरणन्यासमर्धेन्दुमौले:
शश्वत्सिद्वैरुपचितबलिं भक्तिनम्रः परीयाः । यस्मिन्दृष्टे करणविगमादूर्ध्वमुद्धृतपापाः
संकल्पन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ 391 ॥ प्राप्तये संकल्पन्ते । ५८४ । मन्यकर्मण्यनादरे विभाषाप्राणिषु । (२. ३. १७)