________________
१२
पाणिनिसूत्रव्याख्या
अस्मिन्नेव मन्ये लो० 882. रावणप्रीत्यै रावणं प्रीणयितुम् ।
भट्टिकाव्ये - VII. 29.
वयमद्यैव गच्छामो रामं द्रष्टुं त्वरान्विताः । कारका मित्रकार्याणि सीतालाभाय सोऽब्रवीत् || 384
सीतालाभाय सीतां लब्धुम् ।
चम्पूभारते – II. 108.
-
अनयोर्बलयोर्महारथाना
लोकाय नमोजुषां सुरीणाम् । सुदृशां च पुरस्य सौधभाजां
वरणत्रविधृतैव भेदिकाभूत् ॥ 385 |
महारथानामवलोकाय महारथानवलोकयितुम् ।
५८३ | नमःस्वस्तिस्वाहास्वधालेवषडयोगाच्च । ( २. ३.१६ )
एभिर्योगे चतुर्थी स्यात् | हरये नमः । उपपदविभक्तेः कारकविभक्तिचैलीयसी । नमस्करोति देवान् । प्रजाभ्यः स्वस्ति । अप्रये स्वाहा । पितृभ्यः स्ववा | अलमिति पर्याप्तयर्थग्रहणम् । तेन दैत्येभ्यो हरिरलं प्रभुः समर्थः शक्त इत्यादि । प्रवादियोगे षष्ठ्यपि साधुः । तस्मै प्रभवति, स एषां ग्रामणीरिति निर्देशात् । तेन 'प्रभुवुभूर्भुवनत्रयस्ये' ति सिद्धम् । वषडिन्द्राय |
भट्टिकाव्ये - VIII. 98.
सर्वत्र चतुर्थी ।
रावणाय नमस्कुर्याः स्यात्सीते स्वस्ति ते ध्रुवम् ।
अन्यथा प्रातराशाय कुर्याम त्वामल वयम् ॥ 386 ॥
रावणाय नमस्कुर्यास्ते स्वस्ति स्यात् । प्रातराशायालं पर्याप्तम् ।
भट्टिकाव्ये - XIV. 84.
स्वमयुर्वपुधामूवुः सायका रज्जुवत्तताः ।
तस्माद्वलैरपत्रेपे पुनोथास्मै न कश्चन ॥ 387 ॥
अस्मै अकम्पनाय न कश्चित्पुप्रोथ । न प्रभवति स्म । प्रोथ पर्याप्ताविति धातोर्लिट् ।