________________
कारकप्रकरणम्
नैषधे-~-IV. 93.
यदतनुस्त्वमिदं जगते हितं
क स मुनिस्तब यः सहते हतीः । विशिखमाश्रवणं परिपूर्य चे
दविचलद्भुजमुज्झितुमीशिषे ।। 380 ॥ भट्टिकाव्ये--VII. 102.
बुभुत्सवो ध्रुवं सीतां भुत्सीध्वं प्रब्रवीमि वः ।
मा म बुध्वं मृषोक्तं नः कृषढ्वं स्वामिने हितम् ॥ 381 ।। कृषीढ्वं स्वामिने हितम्। ८१ । क्रियार्थोपपदस्य कर्मणि स्थानिनः (२. ३. १४)
क्रियार्था क्रिया उपपदं यस्य तस्य स्थानिनोऽप्रयुज्यमानस्य तुमुनः कर्मणि चतुर्थी स्यात् । फलेभ्यो याति । फलान्याहतु यातीत्यर्थः । नमस्कुर्मो नृसिंहाय । नृसिंहमनुकूलयितुमित्यर्थः । एवं स्वयंभुवे नमस्कृत्येत्यादावपि । भट्टिकाव्ये--VIII. 97.
गते तस्मिन्समाजग्मुर्भयाय प्रति मैथिलीम् ।
राक्षस्यो रावणप्रीत्यै करं चोचुर्मुहुर्मुहुः ॥ 382 ।। भयाय भयमुत्पादयितुम् । रघुवंशे-II. 1.
अथ प्रजानामधिपः प्रभाते जायापतिग्राहितगन्धमाल्याम् ।
वनाय पीतपतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ।। 383 ॥ वनाय वनं गन्तुम् ।
५८२ । तुमर्थाच भाववचनात् । (२. ३. १५) 'भाववचनाश्च' (सू. 3180) इति सूत्रेण यो विहितस्तदन्ताच्चतुर्थी स्मात् । यागाय याति यष्टुं यातीत्यर्थः ।