________________
२२ ]
चतुर्थ सर्ग. [ नेमिनाथमहाकाव्यम् विश्वभूपणमवाप्य तै. प्रभु भूपर्णविरुरुचेऽविक श्रिया । निश्चित हि परमर्द्धिहेतवे जायतेऽधिकगुणस्य सगमः ।।४६।। दिव्यभूपणवती शिवाधिक रोचते स्म रमणीयदर्शना । केवलापि सुभगा हरिन्मणी किं पुन कनकसगशालिनी ॥४७॥ देवता अथ "शिवा सनन्दना निन्यिरे धनददिडि नकेतनम् ।। धर्मशास्त्रसहिता मतिं गिर' सद्गुरोरिव विनेयमानसम् ।।४८।। क्षुद्राद्धिमाद्रेत्रिदशाभियोगिकोशीर्षदारूण्युपढौकितान्यथ । दग्ध्वानले ताश्च तदीयभस्मनो रक्षीकृते पोलिका व्यधुस्तयोः ॥४६॥ आस्फालयन्त्योऽथ मिथोऽन्मगोलको विशालतालाविव चन्द्रनिर्मली। महीधरायुर्भविता भवानिति प्रोचु कुमार्य. प्रभुकर्णकोटरे १५०।। विश्वनयीत्राणपरायणस्य विश्वत्रयीमगलकारिणोऽस्य । यन्मगलाशीर्वचन च रक्षा स स्वामिभक्तिकम एव तासाम् ॥५१॥ कर्पूरकृष्णागुरुधूपवूने
सूत्यालयेऽनल्पविभूपतल्पे । संस्थाप्य नाथ जननी तथैता. प्रभोर्गुणान् गातुमित प्रवृत्ता. ।।५२।। वाटिकतु पतिना यथाहता सत्यवोधसहिता यथा क्रिया । श्रीर्यथा गुचिविवेकसगता शक्रदिग् दिनकराश्रिता यथा ॥५३॥ नीलरत्नकलिता यभोर्मिका द्यौर्यथाभिनवमेघगालिनी । भृ गयुक् कनककेतकी यथा दृग्यथा विमलकज्जलाजिता ॥५४॥ अश्मगर्भमणिकायकान्तिना स्वामिनी सुतवरेण सयुता । निर्मलाखिलसतीशिरोमणी रोचते स्म जननी शिवा तया ।।५।।
॥विभि कुलकम् ।। षट्पञ्चागद् दिक्कुमार्यः किलैव भवत्या युक्तास्तीर्थनाथस्य सम्यक् । सर्वं कृत्वा सूतिकृत्य -कृतज्ञा धन्यमन्या. स्थानमात्मीयमीयु ॥५६।।
इति श्रीकीर्तिराजोपाध्यायविरचित-श्रीनेमिनाथनहाकाध्ये कुमार्यागमवर्णनो
नाम चतुर्थ सर्ग ।