________________
। नेमिनाथमहाकाव्यम् । चतुर्थ सर्ग
[ २१ प्राप्तास्तथोदगुरुचकाद्रितो याः प्रकीर्णव्यनकराः प्रसन्ना. । दिश्युत्तरस्यामवतस्थिरे ता गृहीतकाया इव सिद्धयोऽष्टौ ॥३॥ आगुर्वि दिग्भ्यो रुचकस्य यास्तु सौन्दर्यवर्यावयवाश्चतस्र । ता अप्यवन्दन्त' जिन शिवा च हर्पप्रकर्षाद् द्विगुणीभवन्त्य ॥३६।। गीतान्यथो दीपधरा लपन्त्य स्थिता विदिक्ष्वेव बभासिरेऽमू । उपासितु देवमुपेयुरासा कृत्वेव रूप विदिशश्वतत्र ॥३७॥ एयुम्तथा या रुचकाद्रिमध्यवासाश्चतस्रश्चतुरा कुमार्य । नाल प्रभोश्चिच्छिदुराहतास्ता आत्मानमावेद्य जिनेन्द्रमातू. ॥३८॥ सूत्यालयात्त्रीणि पवित्ररम्भागृहाणि पूर्वोत्तरदक्षिणासु । आशासु निर्माय तदन्तराले पीठ चतु.शालमिमाश्च च ॥३९॥ रात्न विनियरिकरणाकुल तत्पीठ विरेजे कदलीगृहान्त । छन्नऽभित. कोमलपद्मपत्रे स्वच्छाम्भसीव प्रतिविम्वचन्द्र. ।।४०॥ आदाय नाथ करसम्पुटेन देवी शिवा दत्तभुजावलम्बाः । एता अपाचीनकदल्यगारे निन्यु कुमार्य. प्रथम विधिज्ञा ॥४१॥ जिन जिनाम्बा च निवेश्य पीठे सवाहना तत्र विधाय तज्ज्ञा. । उद्वर्तन दास्य इव व्यधुस्ता द्रव्य रपूर्वैरनयो शरीरे ॥४२॥ प्राचीनरम्भानिलयेऽथ नीत्वा तौ स्नापनीयौ शुचिना जलेन । सस्नापयामासुरिमा अमर्य. पुण्याधिकानाममरा हि भृत्या. ॥४३।। गन्धसारघनसारविलेप कन्यका विदधिरेऽथ तदगे । कौतुक महदिद यदमूषामप्यनश्यदखिलो खलु ताप ॥४४॥ तीथनाथमथ तज्जनयित्रीमशुकानि परिधाप्य मुनि । योजयन्ति विमल स्म कुमार्यो भूषणैरिव सुरद्रुमवल्लो ८ ॥४५।।
, ६ महि अप्यवन्तन्त
७ यशो मा , वि मा स्वस्थाम्भसीव ८ वि मा सुरद्र मवल्ल्य