________________
चतुर्थः सर्गः सर्वासा दिक्कुमारीणा समकाल चकम्पिरे । आसनान्यथ सर्वत्र वृक्षा वाताहता - इव ॥शा प्रयुक्तावधयो जन्माज्ञासिपुस्तास्तत प्रभो ।
भूपाल्य इव वृत्तान्त नीवृत 'प्रहितस्पशा ॥२॥ । हारपुष्पावलीरम्या' पीनस्तनमहाफलाः ।
दुकूलपल्लवा कामवल्लिका इव जगमा. ॥३॥ 1 सहसा प्रमदोत्फुल्लनयना -दामरोचिता । सहसा - विलसद्भपा नयनादामरोचिता ॥४॥ कर्णयो - कान्तिभि. , पूर्णे दधाना मणिकुण्डले । सहागतौ तदास्यानि पुष्पवन्ताविवेक्षितुम् ।।५।। दिग्देव्योऽपि रसालीना सभ्रमा अप्यभ्रमा' । वामा अपि च नो वामा, भूषिता अप्यभूषिता ॥६॥ भगवज्जन्मज मोदममान्तमिव चान्तरा । वहन्त्यो बहिरगेऽपि प्रभामण्डलदम्भत ।।७।। ततश्च दिक्कुमार्योऽष्टावूर्वलोकादुपाययु । वृक्षाद् भृग्य इवाम्भोज शिवाया सूतिकागृहम् ।।८।। षड्भि कुलकम् तास्त्रि. प्रदक्षिणीकृत्य जगन्नाथ च मातरम् । 'प्रणिपत्य च सानन्दमनिन्द्यमिदमूचिरे ।।६।। जय त्व देवदेवेन्द्रमानवेन्द्रस्तुतक्रम । नमस्तुभ्य शिवे । मातजगदानन्दनन्दने ।।१०।। गौर्या सम्वोदर. पुत्र श्रियोऽनगस्तु नन्दन । कयोपमीयसे मात ! सांगोत्कृष्ट नन्दने ।।११।।
दिक्कुमाचा
१. यशो. मा., वि. मा अप्यविभ्रमा.