________________
नेमिनाथमहाकाव्यम् ]
तृतीयः सर्गः
[ १७
यो दोहदोऽस्या उदपादि देव्यास्तूर्णं स पूर्ण. परिपूर्ण एव । कुत्रापि कि निर्मलपुण्यभाजां सम्पद्यते नात्र समीहितार्थः ॥३३॥ ये दुर्जया ये च पुरा न नेमुर्गर्भस्थिते स्वामिनि तेऽपि भूपाः । दशाहसज निषिषेविरेऽर गुरु विनेया इव भक्तिभाजः ॥३४॥ स्फुरत्प्रभामण्डलमण्डितागः कालेऽथ देव्याः प्रकटीबभूव । पुत्रो विभक्ताषयचः सुधर्मोपपादशय्यात इवामरेन्द्रः ।।३।। जगज्जनानन्दथुभन्दहेतुर्जगत्त्रयक्लेशसमुद्रसेतु जगत्प्रभुर्यादववशकेतुर्जगत्पुनाति स्म स कम्वुकेतुः ॥३६॥ अप्राप्तपूर्व सुखमापुरस्मिन् क्षणे क्षण नारकजन्तवोऽपि । महात्मना जन्म जगत्पवित्र केषा प्रमोदाय न जाघटीति ॥३७॥ सपदि दश दिशोऽत्रामेयनर्मल्यमापुः
समजनि च समस्ते जीवलोके प्रकाशः । अपि ववुरनुकूला वायवो रेणुवर्ज
विलयमगमदापददौस्थ्यदु ख पृथिव्याम् ॥३८।। प्रसृमर-किरणागश्रीजिनादित्यकान्त
मरकतमणिमुख्यामेयरत्नैरुपेतम् । उदयशिखरिलक्ष्मीमापदेतत्तदानी
क्षितिपतिमुकुटस्य श्रीदशाहस्य धाम ॥३६॥ इति श्रीकीर्तिराजोपाध्यायविरचित-श्रीनेमिनाथमहाकाव्ये जन्मकल्याणिकवर्णनो
नाम तृतीयः सर्ग. ।
८. वि मा. एषः ६. 'सुधर्मोषपातशय्यात' इति मूलपाठो निरर्थकत्वान् नोपात्त.'।