________________
प्रथमः सर्गः [ नेमिनाथमहाकाव्यम् भूप स एव दक्षोऽभून्यायान्यायविचारणे। नीरक्षीरविवेके हि हस एव प्रशस्यते ।। ५३ ।। समृद्धमभजद्राज्य ससमस्त-नयामलम् । कामीव कामिनीकाय ससम-स्तन-यामलम् ।। ५४ ।। रूपलावण्यसम्पन्ना शिवादेवीति नामत । जयश्रीरिव मूर्तास्य बभूव सहचारिणी ॥ ५५ ॥ लेभे सतीपु या रेखा धीष पण्डा मतिर्यथा। पुरोगता कुलस्त्रीपु वच कला कलास्विव ।। ५६ ।। ययात्मीयगुणग्रामै शारदेन्दुसहोदरै । पवित्रीक्रियते धात्री जलौघैरिव गङ्गया ।। ५७ ।। सुशीला सा महादेवी धर्मवान् स नराधिप । तयोर्योगेऽनुरूपेऽभूत् प्रयास सफलो विधे ।। ५८ ॥ अन्यदा सा शिवादेवी सुखशय्यागता निशि । किचित् स्वपिति जागति प्रदोषे पद्मिनी यथा ॥ ५६ ॥ अस्मिन्न वसरे च्युत्वा विमानादपराजितात् । द्वाविश श्रीजिनाधीशस्तस्या कुक्षाववातरत् ।। ६० ॥ परिहृत-परजन्माहारकायप्रचार
सुचिरममरलोके दिव्यभोगाश्च भूक्त्वा । प्रकटितगुभयोगे कात्तिकस्याद्यपक्षे
प्रभुरवतरति स्म द्वादशीवासतेय्याम् ।।६१।। उदारताराग्रहपूगपूर्णा नभ स्थलो तालतमालवर्णा ।
मुक्ताभृता शीतगुवल्लभाया रराज वैदूर्यकरण्डिकेव ॥६२।। इति श्रीकीत्तिगजोपाध्यायविरचित-श्रीनेमिनाथमहाकाव्ये च्यवन
कल्याणकवर्णनो नाम प्रथम मगं । & यशो मा क्षीरनीरविवेके