________________
नेमिनाथमहाकाव्यम् ] प्रथम सर्गः
प्राणेभ्योऽपि धनेभ्योऽपि योषिद्भ्योऽप्यधिक प्रियम् । सोऽमस्त मेदिनीजा निविशुद्ध धर्ममाहतम् ॥ ४२ ॥ क्लीवत्व केवला शान्तिश्चण्डत्वमविवेकिता। द्वाभ्यामत समेताम्या सोऽर्थसिद्धिममस्त ॥ ४३ ॥ काले वर्षति पर्जन्य सूते रत्नानि मेदिनी । प्रजाश्चिराय जीवन्ति तस्मिन् भुजति भूतलम् ॥४४॥ न कापण्यात् पर स्थित्यै सोऽकापीद् धनसञ्चयम् । आकाराय ललौ लोकाद् भागधेय न तृष्णया ॥४५।। गोगोप्तृत्वात् सुपर्वत्वाद् वधात्परवलस्य च । स्वामित्वाज्जयवाहिन्या स देवेन्द्रतुला दधौ ॥ ४६ । न्यायवुद्धिमतोऽमात्यानन्तर्वाणिशिरोमणीन् । स सजग्राह भूभर्ता विनेयानिव सद्गुरु ।। ४७ ।। स एकोऽपि जगज्जेता सेनालीढ किमुच्यते । केवलोऽपि वली सिह किं पुन! ढककट ॥ ४८ ॥ तीव्ररश्माविवोद्दण्डे भूपेऽस्मिन्तु दिते सति । निस्तेजा ग्रहमालेव परास्थद् राजमण्डली ।। ४६ ।। तस्य नीतिमतो राज्ये विवाहे करपीडनम् । न पुन पौरलोकेपु सजात करपीडनम् ॥ ५० ॥ त्रिवर्गसाधने सैप परस्परमवाधया। प्रावृतस्त्रिजगत्सृष्टिविधौ कमलभूरिव ।। ५१ ।। वज्रदण्डायते सोऽय प्रत्यनीकमहीभुजाम् । कल्पद्रु मायते काम पादद्वन्द्वोपजीविनाम् ।। ५२ ।।
८ महि , वि मा गोप्तृत्वाच्च