________________
६२ ]
• एकादश मर्ग [ नेमिनाथमहाकाव्यम् पुरुष-प्रमदारथाश्रया. विपया पच परे महाभटा. । । अवमन्य भवन्तमीश्वर निखला यर्जनता विगोप्यते ॥६१।। रिपुमोहसुतः धाभियोऽरुणतावेपथुतापलक्षण. । उदितः स शिखीव देहिना लघु भस्मीकुरुते गुणेन्धनम् ॥६२।। परनिन्दनतत्परः परस्तनयोऽस्यैव हि माननामक । । तृणवन्मनुते जगत्त्रय स्वगुणैरेप समुन्नत सदा ॥६३।। मधुरां भुवनप्रतारिणी शठता मोहसुतां विलोकसे । यदपीयमहो निहन्यते तदपि स्त्रीवधज न पातकम् ॥६४।। समुदेति च येन जीवता क्षपितोऽपि द्विषतोऽन्वयस्त्वया । त्रिजगत्यपकारकारक ननु - लोभाह्वमवेहि त भटम् ॥६५॥ इह यास्ति विपक्षमध्यगा विकथैका सुभटी चतुर्मुखी! अनया बहु खेदिता भटास्तव सद्बोधसदागमादय ॥६६।। प्रतिपक्षमहीभुज. पर प्रतिकूलो विधिरद्य वर्तते । करमध्यग एव तेन ते विजयो नाथ न चात्र सशय. ॥६७।। वदतीति सुवोधमन्त्रिणि स्फुटमेव तुमुल समुत्थित । त्वरित प्रगुणीभवन्तु भो. सुभटा शत्रुचमू समागमत् ।।६८।। मुदिताश्चरणेशसैनिका जगृहुवर्म ततश्च सोधमा. । प्रथम वहुशः प्रबुध्यते मन आगामिशुभाशुभ कदा ।।६।। अवलोक्य पुरो द्विषा वलं मम भावी विजयोऽधुना न वा। इति मोहमही मुजोदितो गणक. स्माह मनोऽभिधस्तदा ॥७०॥ गहन ननु देवचेष्टित नहि सम्यक् तदिनावधार्यते । शकुना न शुभा भवन्ति भो विजयस्तेन तवाद्य दुर्लभ ॥७१।। अथ सस्मितमाह मोहराट् स्खलितस्त्व गणकन्न वाबुध । यदि मेरुरपानिधि तरेन भवेत्तमु पि मे पराजय ||७२।। गणयस्तृणवद्रिपून मदात् कुपितो मोहमहीपतिस्तत । समराय समुत्यितो रयात् सह रागादिकदण्डनायक ।।७३।।